पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उपक्रमाधिकरणम् ] तृतीयोऽध्यायः । १५१ तस्मिन्नेव भक्षमन्त्रे "गायत्रच्छन्दस इन्द्रपीतस्य' इति श्रूयते । 'गायत्रमेव छन्दो यस्य' इति मन्त्रपदे समासाभिधानादेकच्छन्दोयुक्त ऐन्द्रे सोमे भक्षमन्त्रः इति चेत्- मैवम् ; बहुच्छन्दोयुक्तेऽपि बहुव्रीहेः समानत्वात् । एवकारं परित्यज्य 'गायत्रं छन्दो यस्य' इति विग्रहसंभवात् । एकच्छन्दस्कस्तु सोमो न क्वाऽप्यस्ति । तस्मान्ना- नाच्छन्दस्के सोम ऐन्द्रप्रदान एव मन्त्रः, नाऽन्यत्र । तदेवं कृत्वाचिन्तात्रयं समाप्तम् । द्विविधकृत्वाचिन्तोद्धाटना तु प्रागेव सिद्धान्तिना दर्शिता ॥ . इत्येकोनविंशं भक्षमन्त्रस्य गायत्रान्यच्छन्दस्केऽपि विनियोगाधिकरणम् ॥ १९ ॥ इति श्रीमाधवाचार्यविरचिते जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य द्वितीयः पादः ॥ २॥ अथ तृतीयाध्यायस्य तृतीयः पादः॥ तत्र प्रथममुपक्रमाधिकरणम् ॥१॥ - तृतीयपादे प्रथमाधिकरणमारचयति- कर्तव्यमुच्चैः सामामुपांशु यजुपेत्यमी । मन्त्राणां वाऽथ वेदानां धर्माः, मन्त्रगता यतः ॥ १ ॥ विध्युदेशे मन्त्रवाचिशब्दाः प्रोक्ता ऋगादयः । ऋग्वेदोऽग्नेः समुत्पन्न इत्युपक्रमवेदगीः ॥ २ ॥ असंजातविरोधोऽतस्तद्वशादुपसंहृतेः । नयने सति वाक्येन धर्माणां वेदगामिता ॥ ३ ।। ज्योतिष्टोमे श्रूयते-(१)“उच्चैर्ऋचा क्रियते, उपांशु यजुषा, उच्चैः साम्ना इति । तत्र विधिवाक्ये मन्त्रवाचिनामृगादिशब्दानां प्रयोगान्मन्त्रधर्मा उच्चैस्त्वादयः। तथासति यजुर्वेदोत्पन्ना अध्वर्युणा प्रयुज्यमाना अप्यृच उच्चैरेव पठितव्या इति चेत्- मैवम् ; असंजातविरोधित्वेन प्रबलमुपक्रममनुसृत्य तद्वशेनोपसंहारस्य नेतव्य- , १. ऐ. ब्रा. ५. ५. ६.