पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५० सविस्तरायां जैमिनीयन्यायमालायां [अ. ३. पा.२.अधि.१९. 1 अथाऽष्टादशमैन्द्राग्नभक्षणे मन्त्राभावाधिकरणम् ॥ १८ ॥ अष्टादशाधिकरणमारचयति- समन्त्रकममन्त्रं वा स्यादैन्द्राग्नादिभक्षणम् । ऐन्द्राग्नेऽपीन्द्रपीतत्वसम्भवात्तत्समन्त्रकम् ॥ ४२ ॥ न पानमशरीरस्य युक्तं दानं तु मिश्रगम् । मन्त्रोऽयं तु न मिश्रार्हस्तस्मादेतदमन्त्रकम् ॥ ४३ ॥ यदेतत् “ऐन्द्राग्नं गृह्णाति" इति विहितं शेषभक्षणम् , तत्र इन्द्राग्निभ्यां पीतः सोम इन्द्रेणाऽपि पोतो भवति इति लिङ्गेनैव विनियोगात्समन्त्रकं भक्षणम् इति चेत्- मैवम्; नवमाध्याये (१)वक्ष्यमाणदेवताधिकरणन्यायेनाऽशरीरस्येन्द्रस्य पाना. सम्भवात् । अथ पीतशब्देन दानं विवक्ष्येत , तदानीं 'इन्द्राय दत्तः सोमः' इति मन्त्रार्थो भवति । न चाऽत्र यजमान इन्द्रमुद्दिश्य ददौ, किंत्विन्द्राग्नी उद्दिश्य । तस्मात् दानं मिश्रविषयम् , मन्त्रस्तु न मिश्रविषयः इत्यमन्त्रकं भक्षणम् । इत्यष्टादशमैन्द्रामभक्षणे मन्त्राभावाधिकरणम् ॥ १८ ॥ , अथैकोनविंशं भक्षमन्त्रस्य गायत्रान्यच्छन्दस्केऽपि विनियोगाधिकरणम् १६ एकोनविंशाधिकरणमारचयति- ऐन्द्रदानेऽपि गायत्रमात्रयुक्तेऽथवेतरैः । छन्दोभिरपि युक्ते स्यादाद्यो मन्त्रे तथोक्तितः ॥४४॥ द्वयोः समो बहुव्रीहिरेकच्छन्दास्तु न क्वचित् । नानाच्छन्दस्यैन्द्र एव कृत्वाचिन्तेयमारिता ॥ ४५ ॥ सवनार्थेन्द्रपीतोक्तिरित्युद्घाटनमीरितम् । तेन सर्वप्रदानेषु मन्त्रपाठो यथा स्थितः ॥ ४६॥ इति श्रीमाधवाचार्यविरचितायां जैमिनीयन्यायमालायां तृतीयाध्यायस्य द्वितीयः पादः॥ १. पू.मी. ९.१.४.