पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अनैन्द्राणाममन्त्रकभक्षणाधिकरणम् ] तृतीयोऽध्यायः । १४९ तित्वम् । गृह्यमाणस्य मीयमानस्य च सोमस्यैन्द्रत्वम् (१)"इन्द्राय त्वा वसुमते" इत्यादिग्रहणमन्त्रादवगम्यते । तस्य प्रकृतिभूतस्यैन्द्रचमसस्य भक्षणेऽग्निरनुवषट्कार- देवो नोपलक्षितः । कुतः ? ग्रहणे तदुद्देशाभावात् । इन्द्रस्तूद्देश्यत्वादुपलक्षितः । एवं विकृतावप्युद्देश्यदेवानामेवोपलक्षणं न्याय्यम् । तस्मात् अग्निर्नोपलक्ष्यः ॥ इति षोडशमनुवषट्काराधिकरणम् ॥ १६ ॥ - अथ सप्तदशमनैन्द्राणाममन्त्रकभक्षणाधिकरणम् ॥ १७ ॥ सप्तदशाधिकरणमारचयति- अमन्त्रपक्षमाश्रित्य कृत्वाचिन्तान्तरत्रयम् । ऊहोऽस्ति नो वा, सोऽस्त्यत्र विकृतौ तस्य सम्भवात् ॥ ४० ॥ सोमेनेति विधेः सर्वप्रदानेषु समत्वतः । अविकारेऽप्यनूहोऽतो नैन्द्रे निर्मन्त्रभक्षणम् ॥ ४१ ॥ उक्ताभ्यः पञ्चभ्यः(२) कृत्वाचिन्ताभ्यः पूर्वस्मिन्नेवाऽधिकरणे योऽयं 'अनैन्द्रे- वमन्त्रकं भक्षणम्' इत्येवंरूपः प्रथमः पूर्वपक्षः, तमेव मनसि निधाय पुनः कृत्वाचि- न्तानां त्रयमभिधीयते-अनैन्द्रेषूक्तरीत्या विकृतित्वेनोहसम्भवादस्त्यूह इति चेत्- न अनैन्द्राणां विकृतित्वासम्भवात् । “सोमेन यजेत' इत्युत्पत्तिश्रुतः सोमः कर्म- गोऽङ्गम् । न तु प्रदानविशेषस्य कस्यचिदङ्गम् । स एव सोमः सर्वप्रदानेष्वभ्यस्यत इति सर्वाणि समप्रधानानि। अत ऐन्द्राणामनेन्द्राणां च प्रकृतिविकृतिभावासम्भवान्नाऽस्त्यत्रो- हः। “इन्द्राय त्वा वसुमते' इत्यादिमन्त्रो लिङ्गादैन्द्रविषयोऽस्तु । नैतावता प्रकृतिविकृ. तिभावः सिध्यति । तस्मादुक्तमन्त्रस्य लिङ्गादैन्द्रविषयत्वादनेन्द्रेष्वमन्त्रकं भक्षणम् ॥ न; इति सप्तदशमनैन्दाणाममन्त्रकभक्षणाधिकरणम् ॥ १७ ॥ १. सोमं गृह्णामीति मन्त्रशेषः । २. कृत्वा अभ्युपेत्य चिन्ता विचार इत्यर्थः । यत्र विषयस्याऽनेवं विधत्वेऽपि एवं विध इत्यभ्युपेत्य विचारः क्रियते स विचारः कृत्वाचिन्तेत्युच्यते ।