सामग्री पर जाएँ

पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४८ सविस्तरायां जैमिनीयन्यायमालायां [ अ. ३. पा. २. अधि.१६ अथ पञ्चदशं त्रिंशदधिकरणम् ॥१५॥ पञ्चदशाधिकरणमारचयति- पत्नीवन्तस्त्रयस्त्रिंशदेवास्तान्मादयेत्यमी । लक्ष्या न वा, याज्ययोक्तर्देवत्वादुपलक्षणम् ।। ३६ ॥ एकोऽग्निर्यजमानेन मादितोऽन्ये तु वह्निना । अतोऽग्नेरेव देवत्वान्नाऽन्येषामुपलक्षणम् ॥ ३७॥ तस्यैव पात्नीवतग्रहस्य याज्यायामग्निं सम्बोध्य ‘पत्नीवन्नामधारिणस्त्रयस्त्रिंशद्दे- वान्मादाय' इत्यभिधीयते-“पत्नीवतस्त्रिंशतं त्रीश्च देवाननुष्वधमावह मादयस्व" इति । अनुष्वधमनुप्रदानम् । अत्र हूयमानेन सोमरसेन मादनीयत्वात्त्रयस्त्रिंशतां तद्दे- वत्वम् । अतस्तेऽपि भक्षणे लक्षणीया इति चेत्- न; यजमानेन मादनीयस्याऽग्नेरेव तद्देवत्वात् । त्रयस्त्रिंशद्देवास्तु वह्निना मा- द्यन्त इति न तेषामत्र देवत्वम् । तस्मान्नोपलक्षणम् ॥ इति पञ्चदशं त्रिंशदधिकरणम्॥ १५ ॥ अथ षोडशमनुवषट्काराधिकरणम् ॥ १६ ॥ षोडशाधिकरणमारचयति- सोमस्याग्न इति प्रोक्ताऽनुवषद्कारदेवता । लक्ष्या न वा, देवतात्वाल्लक्ष्या त्रिंशद्विलक्षणा ॥ ३८ ॥ प्रकृतौ विद्यमानोऽग्निरनुद्देशादलक्षितः । उद्देश्येन्द्रो लक्षितोऽतो विकृतावपि तत्तथा ।। ३९ ॥ (१)“सोमस्याग्ने वीहीत्यनुयजति" इति श्रूयते । तत्र अनुवषटकारस्य मा- न्त्रवर्णिकोऽग्निर्देवता । न च त्रयस्त्रिंशतामिव वह्नेरदेवतात्वम् , मन्त्रे वह्निं सम्बोध्य सोमपातृत्वाभिधानात् । तस्मादग्निर्लक्षणीय इति चेत्- न; प्रकृतावलक्षितत्वात् । ऐन्द्रश्चमसः प्रकृतिः, इतरे विकृतिरूपाः । तथा हि- ऐन्द्रश्च सोमो गृह्यते मीयते च । तेनैन्द्रेष्वेव सोमः, अनैन्द्रेषु सोम एव नाऽस्तीति सर्वे सोमधर्मा ऐन्द्रेष्वेव । अनैन्द्रा अधर्मकाः । धर्मसाकाङ्क्षाश्चोदकेन सधर्मका इति विकृ- १. हे अग्ने सोमस्य सोमं (द्वितीयाऽर्थे षष्टो) वीहि प्राप्नुहीत्यर्थः ।