पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्वष्ट्रधिकरणम् ] तृतीयोऽध्यायः । १४७ पादानत्वश्रवणात्ततो निस्सृतसोमरसस्य तत्सम्बन्धेऽपेते सति पश्चात्पत्नीव देवतायै ग्रहणं भवति । तथा सत्यत्यन्तभिन्नस्य पात्नीवतस्य पूर्वदेवेव्वाकाङ्क्षा नाऽस्ति । पुनरभ्युन्नी- तस्तु सोम ऐन्द्रशेषेण संसृष्टः । तस्य संसृष्टस्य भक्षणे मित्रावरुणादीनामिवेन्द्रस्याऽपि सम्वन्धो नाऽपैतीति वैषम्यम् । तस्मात्पात्नीवतभक्षण इन्द्रवाय्वादयो नोपलक्षणीयाः ।। इति त्रयोदशं पात्नीवताधिकरणम् ॥ १३ ॥ अथ चतुर्दशं त्वष्ट्रधिकरणम् ॥ १४ ॥ चतुर्दशाधिकरणमारचयति- सह पत्नीवता त्वष्टा तद्ग्रहे लक्ष्यते न वा । सह त्वष्ट्रा पिबेत्युक्तर्देवत्वात्सोऽपि लक्ष्यते ॥ ३४ ॥ सहत्वमानं त्वष्टुः स्यान्न पातृत्वमशब्दनात् । चोदनाया अभावाच्च न देवोऽतो न लक्ष्यते ॥ ३५॥ तस्मिन्नेव पात्नीव्रतग्रहे शेषभक्षणमन्त्रे पत्नीवता सह त्वष्टाऽप्युपलक्षणीयः । कुतः? त्वष्टुरपि तद्देवत्वात् । तच्च होममन्त्रादवगतम् । (१)“अग्ना३इ पत्नीवा ३ स्सजूदें- वेन त्वष्ट्रा सोमं पिब स्वाहा” इत्यस्मिन्मन्त्रे पत्नीवन्तमग्निं प्लुतान्तेन सम्बोध्य 'त्व- ष्ट्रा देवेन सह पिब इत्यभिधानात्पातृत्वेन पत्नीवत इव त्वष्टुस्तद्देवत्वम् । ततः 'पत्नीवत्त्वष्ट्रपीतस्य' इत्युपलक्षणमिति प्राप्ते- ब्रूम;-पानकाले सहाऽवस्थानमात्रं त्वष्टुः ‘सजूः' इत्यनेन पदेन प्रतीयते । न तु पातृत्वम् , असम्बोधितस्य त्वष्टुः पिब' इत्यनेन शब्देन सामानाधिकरण्याभा- वात् । न च पातृसहभावमात्रेण पातृत्वम् ; 'सहैव दशभिः पुत्रैर्भारं वहति गर्दभी' इत्यत्र पुत्राणां वोढत्वादर्शनात् । आस्तां मन्त्रः, विधिबलात्त्वष्टुर्देवत्वमिति चेत्-न; “पात्नीवतमाग्रयणाद्गृह्णाति' इत्यत्र त्वष्टुरप्रतीतेः। तस्मात् अदेव- त्वात्त्वष्टा नोपलक्षणीयः॥ इति चतुर्दशं त्वष्ट्रधिकरणम् ॥१४ ॥ - - १. ( तै. सं. १. ४. २७.) हे पत्नीवन् अग्ने त्वष्ट्रसंज्ञकेन देवेन सह सोम पिवेत्यर्थः ।