पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४६ सविस्तरायां जैमिनीयन्यायमालायां [अ. ३. पा. २. अधि. १३ > मित्रावरुणाभ्यां सह नेन्द्र उपलक्षणीयः। कुतः? इन्द्रशेषे (१)पुनरभ्युन्नीतस्य तेन सह मित्रावरुणाद्यर्थत्वे सति तस्य शेषस्येन्द्रसम्बन्धराहित्यात् । पुनरुन्नीतस्यैवाऽन्यार्थत्वम् , न पूर्वस्य इति चेत्--न; उन्नयनकाले 'मित्रावरुणाद्यर्थोऽयम्' इति सङ्कल्पाभावात् । प्रदानकाले तु पूर्वशेषेण सहैव मित्रावरुणादिभ्यः प्रदीयते । तस्मात् इन्द्रसम्बन्धरा- हित्यान्नेन्द्रो लक्षणीय इति प्राप्ते- ब्रूमः--मा भूत्सङ्कल्पः, तथाऽप्युन्नयनं करिष्यमाणं मैत्रावरुणादियागार्थमेव । न तु तस्य पूर्वानुष्ठितेन्द्रयागार्थत्वं सम्भवति । तस्मादुन्नीता मित्रावरुणादिसंबद्धशेष इन्द्रसम्बद्ध एवेत्युभयभक्षणे मित्रावरुणादिभिस्सहेन्द्रोऽप्युपलक्षणीयः(२) ॥ इति द्वादशं पुनरभ्युन्नीताधिकरणम् ॥ १२ ॥ अथ त्रयोदशं पात्नीवताधिकरणम् ॥ १३ ॥ त्रयोदशाधिकरणमारचयति- द्विदेवशेष आदित्यस्थाल्या आग्रयणाभिधाम् । स्थालीं प्राप्तस्ततः पात्नीवतस्य ग्रहणे सति ॥ ३१॥ तद्भक्षणे द्विदेवाः किं सार्धं पात्नीवेतन ते । उपलक्ष्या न वा, पूर्वन्यायेनाऽस्तूपलक्षणम् ॥ ३२ ॥ अन्य आग्रयणात्पात्नीवतो नैतस्य विद्यते । आकाङ्क्षा पूर्वदेवेषु पत्नीवानेव लक्ष्यते ॥ ३३॥ (३)एन्द्रवायवादयो द्विदेवत्याः । तेषां शेष आदित्यस्थालीमागच्छति, पुनरपि तस्याः स्थाल्या आग्रयणस्थालीमागच्छति । तस्या आग्रयणस्थाल्याः (४)पात्नीवतो गृह्यते । तस्य पात्नीवतस्य भक्षण इन्द्रवाय्वादय उपलक्षणीयाः । पूर्वाधिकरणे यथा मित्रावरुणादिभिः सहेन्द्र उपलक्षितः, तद्वदिति प्राप्ते- ब्रूमः-(५)“यदुपांशुपात्रेण पात्नीवतमाग्रयणाद्गृह्णाति” इत्याग्रयणपात्रस्या- १. उन्नयनमत्र ग्रहणम् । २. एवञ्च मन्त्रे 'इन्द्रपीतस्येति स्थाने इन्द्रमित्रावरुणपीतस्येत्यूहः कर्तव्य इति भावः । ३. ऐन्द्रवायवमत्रावरुणाश्विना द्विदेवत्याः । ४. पात्नीवतः पत्नीवद्देवताको ग्रहः । ५. यस्मिन् पात्रे उपांशुसंज्ञको ग्रहो गृहीतः, तदुपांशुपात्रम् । तेन पात्रेण आग्रयणस्थालीतः पत्नीवदेवतायै ग्रहं गृह्णीयादित्यर्थः। तै. सं. ६. ५ ७.१.