पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पुनरभ्युन्नीताधिकरणम् ] तृतीयोऽध्यायः । १४२ 'इन्द्रपीतस्य' इत्यत्र बहुव्रीहिर्द्रष्टव्यः । तत्पुरुषत्वे (१) “समासस्य' इति सूत्रे. णान्तोदात्तत्वप्रसङ्गात् । आद्युदात्तं ह्येतत्पदमाम्नातम् । इन्द्रप्रातिपदिकं तु स्वत आद्युदात्तम् । तथा सति (२)“बहुव्रीहौ प्रकृत्या पूर्वपदम्” इति सूत्रेण पूर्वपदप्रकृति- स्वरविधानात्समस्तपदमप्याद्युदात्तमेव संपद्यते। 'इन्द्रेण पीतः सोमो यस्मिन् सवने' इति विग्रहात्सवनपरत्वे सति ‘ऐन्द्रभक्षण एव' इति नियन्तुमसमर्थत्वात्सर्वभक्षणेष्वनूहेनै- वाऽयं मन्त्रः प्रयोक्तव्य इति राद्धान्तः॥ इत्येकादशमिन्द्रपीताधिकरणम् ॥ १९ ॥ (३)अथ द्वादशं पुनरभ्युनीताधिकरणम् ॥ १२ ॥ द्वादशाधिकरणमारचयति- ऊहपक्षे यदूह्यं तच्चिन्त्यते न्यायपञ्चके । इन्द्रे हुतेऽथ तच्छेषे होत्रकैश्चमसस्थिते ॥२८॥ सोमोऽभ्युन्नीय देवेभ्यो हुत्वा संभक्ष्यते तदा। इन्द्रो न लक्ष्यो लक्ष्यो वा, न शेषेऽन्यार्थता यतः ॥ २९ ॥ उन्नीत एव सम्बद्धो न पूर्वो देवतान्तरैः । अत इन्द्रस्य सिद्धयर्थं लक्ष्योऽसावितरैस्सह ॥ ३० ॥ पूर्वाधिकरणे योऽयमूहरूपो द्वितीयः पूर्वपक्षः, तत्प्रसङ्गात्कृत्वाचिन्तारूपेण न्या- यपञ्चकेनोहविषयश्चिन्त्यते । (४)मैत्रावरुणब्राह्मणाच्छंसिपोत्रादय ऋत्विजो होत्रकाः । तेषां च सन्ति चमसाः । पात्रविशेषस्थिताः सोमरसाश्चमसाः । तैर्वषट्कारानुवषट्का- रयोर्होंतव्यम् । चमसानामैन्द्रत्वाद्धोतुर्वषट्कारे प्रथममिन्द्रो हुतः, अनन्तरं चमसस्थिते हुतशेषे पुनः सोमान्तरमभ्युन्नीय देवतान्तरेभ्यो होत्रका अनुवषट्कारे जुह्वति । तत्र मै. त्रावरुणः (५) “मित्रं वयं हवामहे” इति मन्त्रेण मित्रावरुणौ यजति। ब्राह्मणाच्छंसी(६) "इन्द्र त्वा वृषभं वयम्” इति मन्त्रेणेन्द्रं यजति। पोता (७)"मरुतो यस्य हि क्षये, इति मन्त्रेण मरुतो यजति । एवं हुत्वा पश्चात्सोमो भक्ष्यते । तस्मिन् भक्षणे 'मित्रा- वरुणपीतस्य' इति मन्त्र ऊहनीयः । तदानीं 'इन्द्रमित्रावरुणपीतस्य' इत्येवं १. पा. सू. ६.१.२२३. २. पा. सू. ६. २. १. ३. अत्राऽन्तरागर्भिणीत्वेन पञ्चाऽधिकरणानि । तत्र प्रथमाधिकरणमिदम् । ४. अत्राऽऽदिपदेन नेष्ट्र च्छावाकाग्नीध्रा ग्राह्याः । ५. ऋ. सं. १. २.८. ६. ऋ. सं. ३.३.१ ७. ऋ. सं. १.६.११. १३ जै० न्या०