पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४४ सविस्तरायां जैमिनीयन्यायमालायां [अ.३.पा.२.अधि.११. अरुचिमभिभवन्त्याः सोमं सेवमानाया जिह्वायास्तृप्तिं प्रकाशयति । “वसुमद्गणस्य" इत्यादिः "भक्षयामि', इत्यन्तो भागो भक्षणप्रकाशकः । तत्र पूर्ववल्लिङ्गेन विभज्य विनियोग इति चेत्- मैवम् ;न खलु तृप्तिर्भक्षणादन्येन व्यापारेण जायते। किं तर्हि? भक्षणानुनिष्पादिनी हि सा । तथासति कस्मिन्व्यापारे तृप्तिप्रकाशको भागो विनियुज्येत । ततो लिङ्गेन विनियोगासंभवाद्भक्षणवाक्यस्य शेषस्तृप्तिप्रकाशकभागो भविष्यति । उपयुक्तश्च तत्राऽयं भागः । तृप्तिसहितभक्षणप्रकाशनेन पुरुषोत्साहजननात् । तस्मान्मन्द्रादिः सर्वो भक्षणे विनियुज्यते ॥ इति दशमं मन्द्राभिभूत्यधिकरणम् ॥ १० ॥ - अथैकादशमिन्द्रपीताधिकरणम् ॥ ११ ॥ एकादशाधिकरणमारचयति- इन्द्रपीतस्येति भक्षमन्त्रांशः किमिहैन्द्रके । केवलेऽन्यत्र वोहाच्च सर्वत्रोत यथाश्रुतम् ॥ २५ ॥ ऐन्द्र एव समर्थत्वात्तूष्णीमेवाऽन्यभक्षणम् । ऊहो वाऽन्येषु कर्मैक्येऽप्यस्त्यूहो भक्षभेदतः ॥२६ ॥ इन्द्रेण यस्मिन्सवने सोमः पीत इतीरणात् । सवनस्थेषु सर्वेषु मन्त्रोऽनूहेन पठ्यताम् ॥ २७ ।। भक्षमन्त्रे कश्चिदंशः “ इन्द्रपीतस्य” इत्येवंविधः श्रूयते । तत्र 'इन्द्रेण पीतस्य सोमस्य शेष भक्षयामि' इत्यर्थो भवति । तथा सत्यस्य मन्त्रस्येन्द्रप्रदानशेषभक्षण एव समर्थत्वात्तत्रैवाऽयं मन्त्रो विनियुज्यते, न तु मैत्रावरुणादिशेषभक्षणे । तस्मादमन्त्र- कमेव तद्भक्षणमित्येकः पूर्वपक्षः । 'इन्द्रपीतस्य' इति पदस्याऽसमर्थत्वेऽपि 'मित्रावरुणपीतस्य' इत्येवमूहे सति साम र्थ्यं भविष्यति । ननु आग्नेययागस्य प्रकृतित्वात्तद्गतस्य (१)"अग्नये जुष्टम्' इति मन्त्रस्य विकृतौ सौर्ये चरौ "सूर्याय जुष्टम्” इत्येवमूहः क्रियते । इह तु कमैक्यानोहः इति चेत्-न ; कर्मभेद इव भक्षभेदेऽप्यूहितुं शक्यत्वात् इति द्वितीयः पूर्वपक्षः। " 9. तै. सं. १.१.४.