पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मन्द्राभिभूत्यधिकरणम् ] तृतीयोऽध्यायः। १४३ - - णावेक्षणनिगरणसम्यग्जरणानि चोदितानि । न चाविहितेषु मन्त्रो विनियोगमर्हति । समाख्या तु 'भक्षानुवाकः' इत्येवंरूपा भक्षणमात्रविषया। तस्मात्कृत्स्नस्याऽप्यनुवाकस्य भक्षण एव विनियोग इति प्राप्ते- ब्रूमः-अविहितान्यपि ग्रहणादीन्यर्थाक्षिप्तानि, तद्व्यतिरेकेण भक्षणासम्भवात् । अतस्तेष्वनुवाको यथालिङ्गं विभज्य विनियोक्तव्यः । तत्र "भक्षेहि" इत्यारभ्य "अश्विनोस्त्वा बाहुभ्यां सध्यासम्" इत्यन्तो ग्रहणं प्रकाशयति, ‘एहि' इत्याह्वानस्य बाहुभ्यां स्वीकरवाणि इत्येतस्य च दर्शनात् । "नृचक्षसं त्वा देव सोम सुचक्षा अवख्येषम्" इत्ययं भागोऽवेक्षणं प्रकाशयति, शोभन चक्षुरहं मनुष्येषु प्रख्यातं त्वाम- वेक्षिषीय' इत्यभिधानात् । “हिन्व मे गात्रा' इत्यादिः “मा मेऽवाङ्नाभिमति. गाः” इत्यन्तः सम्यग्जरणं प्रकाशयति, गात्रप्रीणनेनाऽधोभागे नाभ्यतिक्रमणनिषेधेन च तदवगमात्। जरणं नार्थाक्षिप्तम् , तेन विनाऽपि भक्षसिद्धेरिति चेत्-न; जरणपर्यन्त- स्यैव सार्थकभक्षणत्वात् । न च जरणे पुरुषव्यापाराभावः, सम्यगुपवेशनादेर्जरणार्थ- त्वात् । “मन्द्राभिभूतिः” इत्यादिः "भक्षयामि" इत्यन्तो भक्षणं प्रकाशयति । तस्मात् लिङ्गेन समाख्यां बाधित्वा विनियोगः कर्तव्यः ॥ इति नवमं भक्षाधिकरणम् ॥ ९ ॥ " अथ दशमं मन्द्राभिभूत्यधिकरणम् ॥ १० ॥ दशमाधिकरणमारचयति- मन्द्रेति वसुमद्रेति द्वयं तर्पणभक्षयोः । विभक्तव्यमुताशेष तृप्तिसंयुक्तभक्षणे ॥ २३ ॥ लिङ्गाद्विभागो मैवं नो तृप्तिर्भक्षणतोऽन्यतः । लिङ्गस्याऽसम्भवे वाक्यशेषात्सर्वोऽस्तु भक्षणे ॥ २४ ॥ "मन्द्राभिभूतिः” इत्यादिः "जुषाणा सोमस्य तृप्यतु' इत्यन्तो भागो हृष्टाया तिः किमु धूर्तिरमृत मर्त्यस्य । यन्म आत्मनो मिन्दाऽभूदग्निस्तत्पुनराहार्जातवेदा विचर्षणिः। ..देवकृतस्यैनसोऽवयजनमसि मनुष्य कृतस्यैनसोऽवयजनमसि पितृ- कृतस्यैनसोऽवयजनमस्यप्सु धौतस्य सोम देव ते नृभिः सुतस्येष्टयजुषस्तुतस्तोमस्य शस्तोक्थस्य यो भक्षो अश्वसनियों गोसनिस्तस्य ते पितृभिर्भक्षंकृतस्योपहूतस्योपहूतो भक्षयामि' इति समग्रो भक्षमन्त्रः । ............