१५६ सविस्तरायां जैमिनीयन्यायमालायां [अ.३.पा.३.अधि.५ अथ सप्तमं बलाबलाधिकरणम् ॥ ७॥ (श्रुतिप्राबल्याधिकरणम् ) सप्तमाधिकरणमारचयति- ऐध्र्न्योपस्थीयतां वह्विरितीन्द्राग्न्योर्विकल्पनम् । समुच्चयो वोत शक्र एवाऽग्निः केवलोऽथवा ॥ १७ ॥ विकल्पः श्रुतिलिङ्गाभ्यां गुणावृत्त्या समुच्चयः । श्रुतिः शक्त्यनुसारेति शक्र एकोऽत्र लिङ्गतः ॥ १८ ॥ शक्तिरुक्ता श्रुतिः शीघ्रा लिङ्गं श्रुत्यनुमापकम् । नैराकाङ्क्षयात्मके बोधे श्रुत्याऽग्नौ केवले स्थितिः ॥ १६॥ "ऐन्ध्र्या गार्हपत्यमुपतिष्ठते इति श्रूयते । (१)“कदाचन स्तरीरसि नेन्द्र सश्चसि दाशुषे इत्यसावृगैन्द्री। तत्रेन्द्रस्य प्रकाशनात् । 'भो इन्द्र, कदाचिदपि घातको न भवसि । किं त्वाहुतिं दत्तवते यजमानाय प्रीयसे' इत्यर्थः । तत्र इन्द्रप्रकाशनसाम. र्थ्यरूपाल्लिङ्गान्मन्त्रस्येन्द्रविषयक्रियासाधनत्वं गम्यते । यद्यसौ मन्त्र इन्द्रप्रधानक- क्रियायाः साधको न भवेत् , तदानीमनेन मन्त्रेणेन्द्रप्रकाशनं व्यर्थं स्यात् । ‘एतन्मन्त्र. करणकक्रियां प्रतीन्द्रः प्रधानम्' इत्येतादृशबुद्धयुत्पादनं लिङ्गविनियोगः । 'काऽसौ क्रिया' इति विशेषजिज्ञासायाम् ‘ऐन्ध्र्योपतिष्टते' इत्यनेनाऽविरुद्धपदद्वयरूपेण वाक्येनो. पस्थानक्रियायां पर्यवसानं क्रियते । तथासति 'ऐन्द्रमन्त्रेणेन्द्रमुपतिष्ठेत' इत्ययमर्थः पर्यवस्यति । तथा 'गार्हपत्यम्' इति द्वितीयान्तपदरूपया श्रुत्या गार्हपत्यस्य प्राधान्यं गम्यते । तच्च गुणभूतां यत्किंचित्करणकक्रियामन्तरेण न संभवति । ततः 'तादृशी कांचित्क्रियां प्रति गार्हपत्यः प्रधानम्' इत्येतादृशबुद्धयुत्पादनं श्रुतिविनियोगः । ऐन्ध्र्या उपतिष्ठते' इति पदद्वयेन मन्त्रविशेषक्रियाविशेषयोः पर्यवसानं भवति । तथासति 'ऐ. न्द्रेण मन्त्रेण गार्हपत्यमुपतिष्ठते' इत्यर्थो भवति । तदेवं श्रुतिलिङ्गयोर्विरोधेे सति प्रमा- णत्वाविशेषा(२)द्व्रीहियववद्विकल्प इत्येकः पूर्वपक्षः । इन्द्रगार्हपत्ययोः प्रधानत्वाविशेषादुपस्थानस्य च गुणत्वात् 'प्रतिप्रधानं गुण आव- र्तनीयः' इति न्यायेनोपस्थानावृत्त्या श्रुतिलिङ्गयोः समुच्चय इति द्वितीयः पूर्वपक्षः । श्रुतिर्विनियुञ्जाना वस्तुसामर्थ्यमनुसृत्यैव विनियुङ्क्ते । अन्यथा 'वह्निना सिञ्चेत्' 'वारिणा दहेत्' इत्यपि विनियुज्येत । तत उपजीव्यत्वेन लिङ्गस्य प्रबलत्वादिन्द्र एव मन्त्रेणोपस्थेय इति तृतीयः पूर्वपक्षः। ऐन्द्रमन्त्रस्य गार्हपत्ये मुख्यवृत्त्या शक्त्यभावेऽपि गौणवृत्त्या शक्तिरस्तीति “निशे १. मै. सं. १. ५. ४. २. 'व्रीहिभिर्यजेत यवैर्यजेत' इत्यत्र यागसाधनत्वे द्वयोर्यथा विकल्पः तद्वदित्यर्थः ।
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१५७
दिखावट