पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

आग्नेय्यधिकरणम् ] तृतीयोऽध्यायः । १४१ विनियोगेऽपि द्वितीययुगलं लिङ्गेनैव विनियोक्तव्यम् । तस्मात् क्रमसमाख्यासहकृतेन काम्येष्टिष्वेवैता याज्या नियम्यन्ते ॥ इति सप्तमं लिङ्गक्रमसमाख्याधिकरणम् ॥ ७ ॥ - अथाऽष्टममाग्नेय्यधिकरणम् ॥ = || अष्टमाधिकरणमारचयति- आग्नेय्याऽऽग्नीध्रमित्यग्निदेवताका ऋचोऽखिलाः । उपस्थाने प्रयोक्तव्याः प्रकृता एव ता उत ॥ १६ ॥ साधारण्येन शब्दोक्तेः सर्वाभिस्तदुपस्थितिः । विशेषे विधिसंक्रान्त्या प्रकृताभिरितीष्यताम् ।। २० ॥ ज्यातिष्टोमे श्रूयते-(१)"आग्नेय्याऽऽग्नीध्रमुपतिष्ठते” इति । तत्र आग्नीध्र- नामकस्य मण्डपस्य यदुपस्थानं तत् , यया कयाचिदृ वा (२)दाशतयोगतयाऽग्निसंब. न्धिन्या कर्तव्यम् । 'अग्निर्देवता यस्या ऋचः साऽऽग्नेयी' इति साधरणोक्तावृग्विशेष- स्याऽप्रतीतेरिति चेत्-- मैवम् ; क्रतुप्रकरणपठितानामाग्नेयीनामृचां ऋतुप्रयुक्तव्यापारसाधनत्वं प्रकरणा- देवाऽवगतम् । 'कोऽसौ व्यापारः' इति विशेषबुभुत्सायां 'आग्नीध्रोपस्थानरूपोऽयम्' इति बोधयन्नयं विधिर्विशेषमात्रे संक्रामतीति लाघवम् । अप्रकृतानां क्रतूपयुक्तव्यापार- साधनत्वं तद्व्यापारविशेषश्चेत्युभयमनेन बोध्यत इति गौरवम् । तस्मात्प्रकृताभिरा- ग्नेयीभिस्तदुपस्थानम् । एवं(३) “ऐन्ध्या सदो, वैष्णव्या हविर्धानम्" इत्यत्र सदोहविर्धाननामकयोर्मण्डपयोरुपस्थाने प्राकृतानामेवैन्द्रीणां वैष्णवीनां च प्रयोग इति द्रष्टव्यम् ॥ इत्यष्टममाग्नेय्यधिकरणम् ॥ ८ ॥ १. आग्नेय्या अग्निप्रकाशिकया ऋचा, आग्नीध्र तन्नामक मण्डपविशेष महावेदेरुत्त. रभागे स्थितं, उपतिष्टते अभिदध्यादित्यर्थः । २. दाशतयी दशमण्डलात्मको ऋग्वेदसंहिताभागः । ३. उभयत्र उपतिष्ठते इति शेषः । तै. सं. ३. १. ६.१. 1