पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४० सविस्तरायां जैमिनीयन्यायमालायां [ अ.३.पा.२.अधि ७. - - लिङ्ग क्रमसमाख्याभ्यां प्रबलं तद्वशादमूः । अकाम्यास्वपि संचार्या याज्याः सर्वत्र का क्षतिः ॥ १७ ॥ समाख्यानात्काण्डयोगः क्रमादिष्टिषु योजनम् । अपेक्षते देवमात्रं शक्तिः काम्यैकगास्ततः ।। १८ ॥ काम्येष्टयस्तत्काण्डे क्रमेणाऽऽम्नाताः-(१)"ऐन्द्राग्नमेकादशकपालं निर्वपेत् , यस्य सजाता वीयुः” इत्यादिना । सजाता ज्ञातयः । वीयुर्विगता विप्रतिपन्ना इत्य- र्थः(२) । “इन्द्राग्नी रोचना' इत्यादिके मन्त्रकाण्डे याज्यानुवाक्याः क्रमेणाऽऽम्नाताः । तत्र 'इदं काम्ययाज्यानुवाक्याकाण्डम्' इति याज्ञिकानां समाख्ययाऽवगम्यते । तयोरि- ष्टिकाण्डमन्त्रकाण्डयोः प्रथमायामिष्टौ प्रथमपठिते याज्यानुवाक्ये इत्यादिव्यवस्था क्रमेण क्रियते । मन्त्रगतं त्वैन्द्राग्नलिङ्गं काम्यायां नित्यायाच्चैन्द्राग्नेष्टौ ते याज्यानुवाक्ये विनियुङ्क्ते । लिङ्गं च प्रबलमिति सर्वत्र तयोर्विनियोग इति प्राप्ते-- ब्रूमः- नाऽत्र लिङ्गेन क्रमसमाख्ये बाधितुं शक्येते, उपजीव्यत्वात् । इन्द्राग्नि- देवतास्वरूपमात्रप्रकाशनं लिङ्गम् । न च तावन्मात्रेण मन्त्रकर्मणोरङ्गाङ्गिभावः । ततः समाख्याबलान्मन्त्रकाण्ड(३)कर्मकाण्डयोः सम्बन्धावगतौ सामान्येन मन्त्रकर्मणोः सम्ब- न्धोऽवगम्यते । विशेषतस्तु 'अस्मिन् प्रथमे कर्मण्ययं मन्त्रः प्रथमः' इति क्रमादवग- म्यते । ननु ऐन्द्राग्नेष्टावैन्द्राग्नमन्त्रः, वैश्वानरेष्टौ वैश्वानरमन्त्र इत्येतादृशो विशेषो लिङ्गेनैवाऽवगम्यत इति चेत्-न; लिङ्गसाधारण्ये क्रमापेक्षणात् । (४) “ऐन्द्राग्नमे. कादशकपाल निर्वपेद्भ्रातृव्यवान्” इति द्वितीयेष्टिरपि । तत्रेन्द्राग्नी पठितौ। मन्त्रकाण्डे- ऽपि (५)"इन्द्राग्नी नवतिम्" इत्यादिकमपरमैन्द्राग्नं याज्यानुवाक्यायुगलमाम्नातम् । न हि तत्र क्रममन्तरेण निर्णेतुं शक्यम् । न च क्रमेणैव तत्सिद्धिर्लिङ्गमप्रयोजकमिति वाच्यम् । क्वचिल्लिङ्गस्यैव व्यवस्थापकत्वात् । ऐन्द्राबार्हस्पत्येष्टिरेकैवाऽऽम्नाता (६)“यं कामयेत राजन्यमनपोद्धो जायेत वृत्रान्घ्नश्चरेदिति तस्मा एतमैन्द्राबार्ह- स्पत्यं चरुं निर्वपेत्” इति । यं राजपुत्रं जायमानं प्रति राज्ञः पुरोहितस्य च काम एवं भवति 'अयं मातृगर्भे देवकृतविघ्नेन केनाऽप्यप्रतिबद्धो जायताम् । जातश्च शत्रून्मा- रयन्संचरेत्' इति, तद्राजपुत्रार्थेयमिष्टिः । मन्त्रकाण्डे तदिष्टिक्रमे याज्यापुरोनुवाक्ये इन्द्राबृहस्पतिदेवताके द्विविधे आम्नाते । (७)"इदं वामास्ये हविः” इत्येकं युग- लम् । (८)"अस्मे इन्द्राबृहस्पती” इत्यादिकमपरम् । तयोः प्रथमयुगलस्य क्रमेण , १. मै सं. २.१.१. २. मै सं. ४.११.१. ३. कर्मविधायककाण्डेति यावत् । ४. मै. सं. २. १.१. .मै.सं. ४.११.१. ६. ते.सं.२.४.१३. ७,८. मै.सं. ४.१२.१, ते. सं ३. ३. ११. १ आनुवाकेऽपि द्रष्टव्यम् । ५.