पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

जिज्ञासाधिकरणम् ] प्रथमोऽध्यायः । १३ , - एवं च सति(१) 'वेदमधीत्य स्नायात्' इति शास्त्रमनुगृह्यते । अस्मिश्च शास्त्रे वेदाध्ययनसमावर्तनयोनॆरन्तर्यं प्रतीयते। त्वत्पक्षे तु–अधीतेऽपि वेदे धर्मविचाराय गुरुकुल एवाऽधिवासः कर्तव्यः । तथा सति तन्नैरन्तर्यं बाध्येत । तस्माद्विचारशास्त्रस्य वैधत्वाभावात्पाठमात्रेण (२)स्वर्गादिसिद्धेः, समावर्तनशास्त्राच्च धर्मविचारशास्त्रं नाऽऽर- म्भणीयमिति पूर्वः पक्षः। अत्रोच्यते-यदुक्तं लोकसिद्धत्वान्नाऽप्राप्तविधिरिति, तत्तथैवाऽस्तु। नियमवि- धित्वं तु न वारयितुं शक्यम् । यथा दर्शपूर्णमासजन्यं परमापूर्वमवघातनियमजन्य- स्याऽवान्तरापूर्वस्य कल्पकम् , एवमत्राऽप्यशेषक्रतुजन्यमपूर्वजातं क्रतुज्ञानसाधनाध्यय- ननियमजन्यस्याऽपूर्वस्य कल्पकं भविष्यति । नियमादृष्टानङ्गीकारे च श्रूयमाणो विधिर- नर्थकस्स्यात् । न च विश्वजिन्न्यायेन स्वर्गार्थत्वं युक्तम् , दृष्टफलेऽर्थज्ञाने सम्भवत्यदृष्टस्य कल्पयितुमशक्यत्वात् । अत एवोक्तम्- (३)"लभ्यमाने फले दृष्टे नाऽदृष्टपरिकल्पना । विधेस्तु नियमार्थत्वान्नाऽऽनर्थक्यं भविष्यति " ॥ इति ॥ नन्वेवमपि श्रुतव्याकरणाद्यङ्गस्याऽधोतवेदस्य पुरुषस्याऽर्थज्ञानसम्भवाद्विचारशा- स्त्रस्य वैयर्थ्यमिति चेत्-न ; ज्ञानमात्रसम्भवेऽपि निर्णयस्य विचाराधीनत्वात् । (४) अक्ताः शर्करा उपदधाती'त्यत्र घृतेनैव, न तैलादिनेत्ययं निर्णयो व्याकरणेन निरुक्तेन निगमेन वा न सिध्यति । विचारशास्त्रं तु 'तेजो वै घृतमिति वाक्यशेषा- दर्थं निर्णेष्यति । अतो विचारो वैधः । 'वेदमधीत्य स्नायादिति शास्त्रं त्वध्ययनस- 2 १. आप. गृ. ५. १२. १. बौ. गृ. ६. १. २. अत्रादिपदेन 'यदृचोऽधीते पयसः कूल्या अस्य पितॄन्त्स्वधा अभिवहन्ति, यद्यजूंषि घृतस्य कूल्या यत्सामानि सोम एभ्यः पवते आहुतिभिरेव तद्देवांस्तर्प- यति त एनं तृप्ता आयुषा तेजसा वर्चसा श्रिया यशसा ब्रह्मवर्चसेनाऽन्नाद्येन च तर्पय- न्ति' ( तै. आ. २. १०. १.) 'यं यं क्रतुमधीते तेन तेनाऽस्येष्टं भवती' त्यार्थवादि- कायुरादिफलसिद्धरपि वोध्या । ३. दृष्टे फले वाक्यार्थज्ञानरूपे, लभ्यमाने सम्भवति सति, अदृष्टस्य वर्गादेः परि- कल्पना न युक्ता । विश्वजिदादौ तु दृष्टस्याऽसम्भवाददृष्टकल्पनं युक्तम् । अतोऽर्थ- ज्ञानाद्देशेनैवाऽध्ययनं विधीयते । ननु तस्य लोकत एव प्राप्तत्वाद्विध्यानार्थक्यमिति चेदाह-विवेरिति । गुरुमुखोच्चारणानूञ्चारणपूर्वकं सम्पादितेनैव वेदेनाऽर्थज्ञानं सम्पा- दयेदिति नियमार्थत्वाद्विधे नर्थक्यमिति भावः । ४. 'शर्करा अक्ता उपदध्यादिति तैत्तिरीयब्राह्मणपाठः (ते. ब्रा. ३.१२.५) शर्कराः मृत्तिकामिश्राः क्षुद्रपाषाणाः । वाक्यस्याऽस्याऽर्थः १. ४. १८ अधिकरणे विवरिष्यते । २ जै० न्या