पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२ सविस्तरायां जैमिनीयन्यायमालायां अर्थज्ञानरूपदृष्टप्रयोजनायेदमध्ययनं विधीयते । अर्थज्ञानं विचारमन्तरेण न संभवति । ततो विधिर्विचारशास्त्रस्य प्रयोजक इति । तत्रैवं संशयः-इदं विचारशास्त्रं विधिप्रयुक्त्या नाऽऽरम्भणीयम् ? उताऽऽरम्भ- णीयमिति इति । तत्र अर्थज्ञानायाऽध्ययनस्य विधिरिति वदन् वादी प्रष्टव्यः- -'किम्(१)अत्यन्त- मप्राप्तमध्ययनं विधीयते ? किं वा पक्षेऽप्राप्तमवघातवन्नियम्यते ? इति । (२)नाऽऽद्यः- 'विमतं वेदाध्ययनमर्थज्ञानहेतुः, अध्ययनत्वात् , भारताध्ययनवत् , इत्यनुमानेनैव वि- धिनिरपेक्षेण प्राप्तत्वात् । तर्हास्तु द्वितीयः पक्षः । अवघातवन्नियमविधित्वसंभवात् । यथा नखैरवघातेन वा तण्डुलनिष्पत्तिसंभवात्पक्षेऽप्राप्तोऽवघातो विधिनाऽवश्यं कर्तव्य इति नियम्यते, तथा लिखितपाठेन गुरुपूर्वकाध्ययनेन वाऽर्थज्ञानसंभवात्पक्षेऽप्राप्तमध्य- यनं विधिना नियम्यत इति चेत्-न; वैषम्यात् । अवघातनिष्पन्नैरेव तण्डुलैरवान्तरा- पूर्वद्वारेण दर्शपूर्णमासौ परमापूर्वं जनयतः, नान्यथा । अतो(३)दर्शपूर्णमासापूर्वमवघा- तस्य नियमहेतुः । अत्र तु लिखितपाठजन्येनैवार्थज्ञानेन क्रत्वनुष्ठानसिद्धेरध्ययनस्य नियमहेतुर्नास्ति । अतो द्विविधविध्यसंभवादर्थज्ञानहेतुविचारशास्त्रारम्भस्य वैधत्वं नाऽ- स्ति । तर्हि श्रूयमाणस्य विधेः का गतिरिति चेत् , स्वर्गायाऽक्षरग्रहणमात्रं विधेयमिति वदामः । अश्रुतोऽपि स्वर्गो विश्वजिन्न्यायेन कल्पनीयः(४) “स स्वर्गः स्यात्सर्वान्प्र- त्यविशिष्टत्वात्” इति सूत्रेण विश्वजित्यश्रूयमाणमप्यधिकारिणं संपादयितुं तद्विशेषणं स्वर्गफलं युक्त्या स्थापितम् । तद्वदध्ययनेऽप्यस्तु । एतदेवाऽभिप्रेत्योक्तम्- (५)“विनाऽऽपि विधिना ज्ञानलाभान्नहि तदर्थता । कल्प्यस्तुविधिसामर्थ्यात्स्वर्गो विश्वजिदादिवत् ॥ १. 'अग्निहोत्रं जुहोती? त्यत्रेव किमपूर्वविधित्वं प्रकृते स्वीक्रियते अथवा 'व्रीहीन- वहन्तो त्यत्रेव नियमविधित्वं स्वक्रियत इति प्रश्नस्य तात्पर्यम् । २. अपूर्वविधिस्थलेऽत्यन्ताप्राप्तार्थप्रापकत्वस्याऽऽवश्यकत्वात् , प्रकृते विधीयमान- स्य स्वाध्यायाध्ययनस्याऽर्थज्ञानहेतुत्वं लोकत एवाऽवगतमिति अत्यन्ताप्राप्तार्थप्रापकत्व- स्याऽभावान्नाऽपूर्वविधित्वमिति भावः । ३. 'व्रीहीनवहन्ती' त्यस्य दर्शपूर्णमासप्रकरणे पाठात्तदन्यथानुपपत्या नियमस्स्वी- कृतः-अवहनननिष्पन्नैरेव तण्डुलैर्दर्शपूर्णमासापूर्वं सम्पादयेदिति । प्रकृते त्वध्ययनवि- धेरनारभ्याधीतत्वेन नियमप्रयोजकप्रकरणादेरभावात् न नियमविधित्वसम्भव इतिभावः। (जै.सू.४.३.१५) यस्मिन् विधिवाक्ये फलविशेषो न श्रूयते तद्विषयमिदं सूत्रम् । सः कल्पनीयः फलविशेषः, स्वर्गः स्यात् स्वर्गो भवितुमर्हति । कुतः? सर्वान् प्रत्यविशि- टत्वात् सर्वैरपि पुरुषैरविशेषेणाऽभिलषितत्वात् । पुत्रपश्वादयो हि पुरुषाणां कदाचिद- भिलाषविषया न भवेयुरपि, स्वर्गस्तु न तथा, पुनः पुनरनुभूयमानोऽपि निरतिशयत्वेन तत्राऽरुच्यनुदयादिति सूत्रार्थः ।। ५. शा. दी. पृ. ३. , ४.