पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अ.१.पा.१.अधि.१.] प्रथमोऽध्यायः। ११ विष्टत्वाद्वाक्यप्रसङ्गेन शब्दनित्यत्वं षष्ठाधिकरणे वर्ण्यत इति प्रासङ्गिकसङ्गतिः । सप्तमाः ध्यायस्य चतुर्थे पादे द्वितीयाधिकरणेन सौर्यादिविकृतिषु वैदिकमङ्गजातमुपदेष्टुं तदुपयो- गित्वेन प्रथमाधिकरणे धर्मसापेक्षत्वं साधितम् । तत्र प्रथमाधिकरणमुपोद्धातः । सेयमु- त्तराधिकरणेन सह पूर्वाधिकरणस्योपोद्धातसङ्गतिः। प्रथमाध्यायस्य तृतीयपादस्य प्रथमा- धिकरणे-अष्टकादिस्मृतेः प्रामाण्यमुक्तम् । द्वितीयाधिकरणे-सर्ववेष्टनस्मृतेः पूर्ववत्प्राप्त- प्रामाण्यमपोद्यते । सेयमपवादसङ्गतिः । अनया दिशा सर्वत्र सङ्गतिरूहनीया ॥ प्रथमं जिज्ञासाधिकरणम् ॥ - अथाऽतो धर्मजिज्ञासा ॥१॥ इत्थं सङ्गतीर्युत्पाद्याऽथ प्रत्यधिकरणं विषयसंशयपूर्वपक्षसिद्धान्तांश्चतुरोऽवयवा- न् संजिघृक्षुः प्रथमाध्यायस्य प्रथमे पादे प्रथमाधिकरणं भट्टमतेनाऽऽरचयति-- स्वाध्यायोऽध्येय इत्यस्य विधानस्य प्रयुक्तितः। विचारशास्त्रं नाऽऽरभ्यमारभ्यं वेति संशयः॥३०॥ अर्थधीहेतुताऽधीतेर्लॊकसिद्धावघातवत् । नियामकं न चैवाऽतो वैधारम्भो न संभवी ।। ३१ ।। दर्शापूर्ववदस्त्यत्र क्रत्वपूर्व नियामकम् ॥ अर्थनिर्णायकं शास्त्रमत आरभ्यतां विधेः॥ ३२ ॥ "चोदनालक्षणोऽर्थो धर्मः' इत्यारभ्य "अन्वाहार्ये च दर्शनात्” इत्येतदन्तं जैमिनि- प्रोक्तं सूत्रजातं धर्मविचारशा स्त्रम् । तदेतस्य प्रथमाधिकरणस्य विषयः । (१) स्वाध्यायो- ऽध्येतव्यः' इत्यध्ययनविधिरक्षरग्रहणमात्रपर्यवसायाति केचिन्मन्यन्ते । अपरे त्वेवमाहुः- । १. अस्याऽर्थः-स्वस्य अध्यायः स्वाध्यायः । अत्र स्वशब्दः आत्मकुलपरम्प- रावाचकः । अध्यायशब्दश्शाखावच्छिन्नवेदपरः । अध्येतव्य इत्यत्र अधिपूर्वकेधातो- रध्ययनमर्थः । अध्ययनं नाम गुरुमुखोच्चारणपूर्वकशिष्यानूच्चारणम् । तव्यप्रत्ययस्य लक्षणया आर्थीभावना अर्थः । तस्याञ्चाऽऽर्थीभावनायां स्वाध्यायस्य कर्मत्वेन अध्य- यनस्य करणत्वेन चाऽन्वयः। तथाच अध्ययनेन गुरुमुखोच्चारणानूच्चारणेन स्वाध्या- यं स्वकुलपरम्परागतैकशाखावच्छिन्नं वेदं भावयेत् प्राप्नुयादिति श्रुतशाब्दबोधः ।