पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१० सविस्तरायां जैमिनीयन्यायमालायां जिज्ञास्यत्वेन प्रतिज्ञाते धर्मे विधिवाक्यं साक्षात्प्रमाणमिति तद्विचारः प्रथमे पादे युक्ता । अर्थवादवाक्यस्य विधिद्वारा प्रमाण्याद्विध्यनन्तरभावित्वम् । स्मृतिवाक्यस्य सार्थवादविधिरूपवेदमूलतया प्रामाण्यादर्थवादोत्तरभावित्वम् । नामधेयस्य वाक्यैकदेश- त्वेन पूर्वोक्तत्रिविधवाक्यविचारोत्तरकालीनत्वम् । अनेन न्यायेनोत्तराध्यायगतपादानां परस्परं क्रम उन्नेयः॥ इत्थं शास्त्रस्याऽध्यायानां पादानां च क्रमविशेषविशिष्टानामसाधारणप्रतिपाद्यमर्थ निरूष्य तन्निर्णयफलं दर्शयति-- ऊहित्वा सङ्गतीस्तिस्रस्तथाऽवान्तरसङ्गतिम् । ऊहेताऽऽक्षेपदृष्टान्तप्रत्युदाहरणादिकाम् ।। २८ ॥ शास्त्रादिप्रतिपाद्यार्थसम्बन्धितयाऽधिकरणे योजिते सति तस्याऽधिकरणस्य शास्त्रस- ङ्गतिः, अध्यायसङ्गतिः, पादसङ्गतिश्चेति तिस्र ऊहिता भवन्ति । तद्यथा-प्रथमाध्यायस्य प्रथमपादस्य द्वितीयाधिकरणे धर्मस्य लक्षणप्रमाणराहित्यं पूर्वपक्षीकृत्य तत्सद्भावः प्रतिपादितः । तस्याऽधिकरणस्य धर्मसम्बन्धितया धर्मविचारशास्त्रे सङ्गतिः । प्रमाणवि- चाररूपत्वात्प्रथमाध्याये सङ्गतिः । विधिवाक्यस्य प्रमाणत्वेनोपन्यासात्प्रथमपादे सङ्गतिः । यथैतत्सङ्गतित्रयमूर्हितम् , तथा पूर्वोत्तराधिकरणयोः परस्परमवान्तरसङ्गतिरू- हनीया । सा चाऽनेकरूपा-आक्षेपसङ्गतिः, दृष्टान्तसङ्गतिः, प्रत्युदाहरणसङ्गतिः, प्रासङ्गि- कसङ्गतिः, उपोद्धातसङ्गतिः, अपवादसङ्गतिश्चेत्येवमादिरूपा ॥ तासामाक्षेपादिसङ्गतीनामूहं व्युत्पादयति-- पूर्वन्यायस्य सिद्धान्तयुक्तिं वीक्ष्य परे नये । पूर्वपक्षोक्तयुक्तिं च तत्राऽऽक्षेपादि योजयेत् ॥ २९ ॥ तदेतत्सर्वं योजयित्वा प्रदर्यते--प्रथमेऽध्याये प्रथमपादस्य प्रथमाधिकरणगतो धर्मविचारशास्त्रं वैधमिति सिद्धान्तः । अर्थज्ञानहेतावध्ययने नियमविधेस्संभवादिति तद्युक्तिः । द्वितीयाधिकरणे--धर्मे लक्षणं प्रमाणञ्च नास्तीति पूर्वपक्षः, लौकिका- कारहीनत्वात् , प्रत्यक्षाद्यप्रवृत्तेश्चेति तयुक्तिः । तया युक्त्या धर्मस्य लक्षणप्रमाणर- हितत्वे सति नरविषाणसमो धर्म इति तद्विचारशास्त्रस्य विधेयत्वमनुपपन्नमित्याक्षेपसं- गतिः । यथा प्रथमाधिकरणे नियमविधिसंभवेन हेतुना विचारशास्त्रस्य विधेयत्वमुक्तम् , तथा द्वितीयाधिकणे लौकिकाकारहीनत्वप्रत्यक्षाद्यप्रवृत्तिरूपेण हेतुना धर्मे लक्षणप्रमाणे न स्त इति दृष्टान्तसङ्गतिः । यथा प्रथमाधिकरणसिद्धान्ते पूर्वोक्तयुक्तिरवलोक्यते, तथा द्वितीयाधिकरणे काञ्चिदपि युक्तिं न पश्याम इति प्रत्युदाहरणसङ्गतिः । एते दृष्टान्त- प्रत्युदाहरणसङ्गती मन्दबुद्धिभिरपि सर्वत्रोत्प्रेक्षितुं शक्यते । पञ्चमाधिकरणे विधिवाक्य- स्य निरपेक्षत्वात्प्रामाण्यं वर्णितम् । तस्य च वाक्यस्य शब्दार्थयोर्मध्ये शब्दकोटिनि- . , , ,