पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४ सविस्तरायां जैमिनीयन्यायमालायां , मावर्तनयोः पूर्वापरीभावसमानकर्तृकत्वमेवाऽऽचष्टे, न त्वानन्तर्यम् । तस्माद्विधिवशा- देव विचारशास्त्रमारम्भणीयमिति सिद्धान्तः ॥ अस्मिन्नेवाऽधिकरणे गुरुमतमाह- अथवाऽध्यापनात्सिद्धेर्नैवाऽस्त्यध्ययने विधिः । तेन पूर्वोत्तरौ पक्षौ प्रसाध्यावन्यहेतुभिः ॥ ३३ ॥ विधेयाध्यापनं सिध्येद्वालस्याऽर्थधियं विना । तेन निर्विषयं शास्त्रं निष्फलं चेत्युपेक्ष्यताम् ॥ ३४ ॥ स्वतः प्राप्तार्थबोधस्य विवक्षानपनोदनात् । विषयादि सुसम्पादं शास्त्रमारभ्यते ततः ॥ ३५ ॥ 'अष्टवर्षंं ब्राह्मणमुपनयीत, तमध्यापयीते'त्यध्यापनं विहितम्। न चाऽत्र नियो- ज्याभावः, आचार्यत्वकामिनो नियोज्यत्वात् । 'उपनयीते'त्यनेनाऽऽचार्यकरणे (१)“सम्माननोत्सजनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः” इति पाणिनिसूत्रेण विहितेनाऽऽत्मनेपदेन नियोज्यविशेषणमाचार्यत्वं प्रतीयते । उपनयने यो नियोज्यः स एवाऽध्यापनेऽपि । तयोरेकप्रयोजनत्वात् । एवं सत्याचार्यकर्तृकमध्यापनं माणवक- कर्तृ केणाऽध्ययनेन विना न सिध्यतीत्यध्यापनविधिप्रयुक्त्यैवाध्ययनानुष्ठानसिद्धेर्न पृथ- गध्ययने विधिरभ्युपगन्तव्यः । श्रूयमाणं विधिवाक्यं नित्यानुवादत्वेनाऽप्युपपद्यते। ततोऽध्ययनविधिमुपजीव्य पूर्वमुपन्यस्तौ पूर्वोत्तरपक्षावन्यथा वर्णनीयौ । विषयसंशय- योस्तु नाऽस्ति विप्रतिपत्तिः । विचारशास्त्रं विषयः । अवैधं, वैधं वेति संशयः । तत्र वैधत्ववादी प्रष्टव्यः- :-विधेयमाचार्यकर्तृकमध्यापनं किं माणवकस्याऽर्थज्ञानमपि प्र- युञ्जीत ? किंवा पाठमात्रम् ? नाऽऽद्यः, अन्तरेणाऽप्यर्थज्ञानमध्यापनसिद्धेः। पाठमात्रेतु विचा- रस्य विषयो न भवति । आपाततः प्रतीतः सन्दिग्धोऽर्थो विषयः । तथा सति यत्राऽर्थप्र- तीतिरेव नाऽस्ति, तत्र सन्देहस्य का कथा ? निर्णयो विचारस्य फलम् । सोऽपि विषयव- द्दूरापेतः । अतो विषयप्रयोजनाभावाद्विचारशास्त्रं नाऽऽरम्भणीयमिति पूर्वः पक्षः । अत्रोच्यते-मा नामाऽध्यापनेनाऽर्थावबोधः प्रयुज्यताम् । तथाऽपि साङ्गवेदाध्या- यिनो निगमनिरुक्तव्याकरणैर्युत्पन्नस्य पौरुषेयग्रन्थेष्विव वेदेऽप्यर्थावबोधः स्वत एव प्रा- प्नोति । ननु यथा 'विषं भुङ्क्ष्वे'त्यत्र प्रतीयमानोऽप्यर्थो न विवक्षितः, तथा वेदार्थस्याऽप्य- विवक्षायां विषयाद्यभावस्तदवस्थ इति चेत्न; 'विवक्षाया अपनोदितुमशक्यत्वात् । , १. (पा.सू.१.३.३६.) फलस्य परगामित्वेऽपि सम्माननाद्यर्थेषु गम्येषु णीञ्धातो- रात्मनेपदं स्यादिति सूत्रार्थः ।