पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सूक्तवाकाधिकरणम् ] तृतीयोऽध्यायः। १३७ - " . ज्योतिष्टोमे समामनन्ति-(१)"उत्तिष्टन्नन्वाहाऽग्नीदग्नीन्विहर” इति । तथा (२)"व्रतं कृणुतेति वाचं विसृजति" इति । तत्र आग्नीध्रं सम्बोध्याऽग्निविहरणादि- प्रेषरूपो मन्त्रोऽनेन वाक्येनोत्थानशेषतया विनियुज्यते। तथा मुष्टिं कृत्वा निय- मितवाचो दीक्षितस्य वाग्विमोके "व्रतं कृणुत” इति मन्त्रो विनियुज्यते। न चाऽत्र पूर्वोक्तावघातशब्दवदुत्थानविमोकशब्दो काललक्षको, तत्कालयौरवघातकालवदर्थप्राप्त्य. भावेन विधेयत्वे सति लक्षणाया अन्याय्यत्वादिति प्राप्ते- ब्रूमः- अग्निविहरणप्रेषे पयःपानरूपव्रतसम्पादनप्रैषे चान्वितावेतौ मन्त्रौ, न तूत्थाने वाग्विमोके च । अतोऽसमर्थयोर्विनियोगासंभवादगत्या लक्षणामप्यङ्गीकृत्य का- लो विधीयते । इति चतुर्थ वाग्विसर्गाधिकरणम् ॥ ४ ॥ अथ पञ्चमं सूक्तवाकाधिकरणम् ॥ ५ ॥ (३)पञ्चमाधिकरणमारचयति- प्रस्तरं सूक्तवाकेन प्रहरेदिति कालधीः । अङ्गाङ्गिता वा स्यात्कालोऽजुषतेत्याद्यनन्वयात् ॥ १२ ॥ प्रहृतेरिष्टदेवार्थसंस्कारत्वात्तदन्वयः । सम्पाद्यो देवताद्वारा तृतीयाश्रुतितोऽङ्गता ॥ १३ ॥ दर्शपूर्णमासयोराम्नायते--(४)"सूक्तवाकेन प्रस्तरं प्रहरति” इति । १.अग्नीदग्नीन् विहर, बर्हिस्तृणाहि, पुरोडशानलङ्कुरु, प्रतिप्रस्थातः पशुनेही त्या- नुपूर्वीघटित एव मन्त्रश्शतपथब्राह्मणादौ (श ब्रा. ४.२.४.११.) उपलभ्यते। 'उत्तिष्ठन्न- न्वाह--अग्नीदग्नीन् विहरे' त्यानुपूर्वीघटितस्तु नोपलभ्यते। परन्तु आपस्तम्बश्रौतसूत्रे 'अथैकेषाम्-उत्तिष्ठन्नाहाऽग्नीदग्नीनिति ( आप.श्री. १२.१७.२०) शाखान्तरीयत्वेनो- पलभ्यते । हे अग्नीत् ! आहवनीयाद्यन्नीन् प्रज्वालय, हे प्रतिप्रस्थातः अग्नीषोमीयप- शुना साकमागच्छेति मन्त्रार्थः । अन्यत् स्पष्टम् । २. तै.सं. ६.१.४. ३. पूर्वाधिकरणेनास्य प्रत्युदाहरणसङ्गतिः । ४. सूक्तवाकः तन्नामको मन्त्रविशेषः, प्रस्तरो दर्भमुष्टिविशेषः । (यः हविर्धारणार्थ वेद्यामास्तृतः) प्रहरतिना लक्षणया यागोऽत्राऽभिधीयते । एवञ्च सूक्तवाककरणप्रस्तर- द्रव्यकयागेन प्रकृतयागीयदेवता अग्न्यादिकाः पूर्वमाज्यभागप्रधानयागादावुपयुक्ता- स्संस्कुर्यादिति वाक्यार्थः । -