पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३८ सविस्तरायां जैमिनीयन्यायमालायां [अ.३.पा.२.अधि.५ - (१)“इदं द्यावापृथिवी भद्रमभूत्" इत्यादिको मन्त्रः सूक्तवाकः । तस्मिन्मन्त्रेऽग्नि सम्बोध्य 'त्वं सूक्तवागसि' इत्याम्नानात् । प्रस्तरो दर्भमुष्टिः । तस्य प्रहरणमग्नौ प्रक्षे- पः । तत्र 'सूक्तवाकेन' इत्येतत्पदं कालं लक्षयति । होत्रा मन्त्रेऽस्मिन् पठ्यमाने तत्पाठकालेऽध्वर्युः प्रस्तरं प्रहरेत् । न त्वत्र प्रहरणे मन्त्रोऽयं विनियोक्तुं शक्यः, पूर्वोक्तप्रैषमन्त्रवदत्राऽन्वयाभावात् । “अग्निरिदं हविरजुषतावीवृधत महो ज्यायो. ऽकृत' इत्यादिकं मन्त्रे पठ्यते । 'पुरोडाशसेवया वृद्धोऽग्निस्तस्मिन्यजमाने तेजोबा- हुल्यं कृतवान्' इति तस्याऽर्थः । न चाऽसौ प्रस्तरप्रहरणेऽन्वेतुं शक्य इति प्राप्ते-- ब्रूम:--'सूक्तवाकेन' इति तृतीयाश्रुत्या प्रहरणे मन्त्रो विनियुज्यते । न चाऽत्य- न्तमन्वयाभावः । मन्त्रो चेष्टदेवतासंस्कारः । अतो ह्ययं पूर्वमिष्टानग्न्यादिदेवाननुस्मारयति । प्रस्तरप्रहरणं चेष्टदेवतासंस्कारः । अतो देवताद्वारा मन्त्रप्रहरणयोरन्वयान्मन्त्रो विनियुज्यते । ननु प्रहरणं नाम प्रक्षेपमात्रम् । न तु देवतोद्देशेन प्रक्षेपः, यजिधातोरश्रवणात् । तथासति देवतानामत्राऽभावात्तद्वाराऽपि नाऽन्वय इति चेत्-मैवम् ; देवतानां सद्भावात् । अग्न्यादिदेवताप्रकाशकस्य सूक्तवाकस्य तृतीयाश्रुत्या प्रहरणाङ्गत्वं बोध्यते । यदि प्रकरणेऽग्न्यादयो देवता भवेयुः, तदा तत्प्रकाशनेन दृष्टोऽर्थो मन्त्रस्य लभ्येत, ततो देवताकल्पनेन तदुद्देशपूर्वकस्य प्रक्षेपस्य यागत्वं सिध्यति । तस्मात् देवताद्वाराऽस्त्येवाऽन्वयः । इति पञ्चमं सूक्तवाकाधिकरणम् ॥ ५ ॥

> > १. "इदं द्यावापृथिवी भद्रमभूत् , आर्ध्म सूक्तवाकमुत नमोवाकमृध्यास्म सूक्तो- च्यमग्ने त्वं सूक्तवागस्युपश्रुती दिवस्पृथिव्योः, ओमन्वत तेऽस्मिन् यज्ञे यजमान द्यावापृथिवी स्ताम्, शङ्गयी जीरदानू , अत्रस्नू अप्रवेदे, उरू गव्यूती अभयङ्कृतौ, वृष्टिद्यावारीत्यापा, शम्भुवौ मयोभुवौ ऊर्जस्वती पयस्वती सूपचरणा च स्वधिचरणा च, तयोराविदि अग्निरदं हविरजुषतावीवृधत महो ज्यायोऽकृत, सोम इदं हविरजुषतावि- वृधत महो ज्यायोऽकृत, अग्निरिदं हविरजुषतावीवृधत महो ज्यायोऽकृत, अग्नीषो- माविदं हविरजुषेतां अवीवृधेतां महो ज्यायोऽक्रातां, इन्द्राग्नी इदं हविरजुपेतां अवी- वृधेतां महोज्यायोऽक्रातां, इन्द्र इदं हविरजुषत अवीवृधत महो ज्यायोऽकृत, महेन्द्र इदं हविरजुषत अवीवृधत महो ज्यायोऽकृत देवा आज्यपा आज्यमजुषन्तामवीवृधन्त महो ज्योयोऽक्रत, अग्निर्होत्रेणेदं हविरजुषतावीवृधत महो ज्यायोऽकृत अस्यामृधेद्धोत्रा- यां देवङ्गमायां आशास्तेऽयं यजमानोऽसौ आयुराशास्ते सुप्रजास्त्वमाशास्ते रायस्पो- षमाशास्ते सजातवनस्यामाशास्ते उत्तरां देवयज्यामाशास्ते भूयो हविष्करणमाशास्ते दिव्यं धामाऽऽशास्ते, विश्वं प्रियमाशास्ते यदनेन हविषाऽऽशास्ते तदश्यात्तदृध्यात् , तदस्मै देवा रासाताम् , तदग्निर्देवो देवेभ्यो वनते वयमग्नेर्मानुषाः, इष्टञ्च वित्तं च उभे च नो द्यावापृथिवी अंहसस्स्पातामिह गतिर्वामस्येदं च नमो देवेभ्य” इति (आश्व. सू.१.९.९.) समग्रस्सूक्तवाकमन्त्रः । ,