- , १३६ सविस्तरायां जैमिनीयन्यायमालायां [अ.३.पा.२.अधि.४. ह्वानपरत्वाच्छ्रयमाणं 'अबघ्नन्' इति पदमनर्थकं स्यात् । प्राप्तमवघातमुद्दिश्य मन्त्रस्य त्रित्वस्य च विधौ वाक्यभेद इति चेत्-न; त्रित्वस्य प्राप्तत्वेनाऽनुवादकत्वात् । कस्यां चिच्छाखायामयं मन्त्रो मन्त्रकाण्डे त्रिवारमभ्यस्याऽऽम्नातः। आह्वयतिपदं तु 'एहि' इतिवदवघातपरतयोपचरणीयमिति प्राप्ते-- ब्रूमः त्रिरभ्यासस्य नित्यवत्प्राप्तिः पाठमात्रेण न सिध्यति, कस्याञ्चिच्छाखायां द्विःपाठात् । कस्याञ्चित्सकृत्पाठात् । अतोऽसौ नित्यवद्विधीयते । न च 'अवघ्नन्' इत्य- स्य वैयर्थ्यम् , तस्य काललक्षकत्वात् । कालस्याऽपि विधौ वाक्यभेद इति चेत्-न प्राप्तत्वात् । न ह्यवघाते सहायाह्वानमन्यस्मिन् काले भवति । ततोऽर्थप्राप्तः कालः । आह्वानमपि मन्त्रसामर्थ्यादेव प्राप्तत्वान्न विधेयम् । न हि ‘एहि' इति मन्त्राठ आ- ह्वानमन्तरेणोपपद्यते । मन्त्रव्याख्यानं चोदाहृतम् । तत्राऽयं वाक्यार्थः सम्पन्नः-'अव- घातकाले यदाह्वानं तस्य तिरभ्यासः कर्तव्यः' इति । अत एव शाखान्तरे विस्पष्टमा- ह्वानानुवादेनाऽभ्यासो विधीयते-(१)"त्रिर्ह्वयति त्रिषत्या हि देवाः” इति । एवंसति मन्त्रस्याऽपि विनियोगे वाक्यभेदः स्यात् । लिङ्गेन त्वाह्वाने विनियुज्यते, नावघाते । न चैन्द्रीन्यायोऽत्र प्रसरति, तृतीयाश्रुत्यभावात् । “बर्हिर्देवसदनं दामि इत्यत्रोक्तेन तु न्यायेन मुख्य एवाऽऽह्वाने लिङ्गेन मन्त्रविनियोगः, न त्ववघातरूपे गौणाह्वाने । तस्मात् आह्वानशेषोऽयं मन्त्रः ॥
इति तृतीयं हविष्कृदाह्वानाधिकरणम् ॥ ३ ॥ - अथ चतुर्थ वाग्विसर्गाधिकरणम् ॥ ४॥ चतुर्थाधिकरणमारचयति- उत्तिष्ठन् प्रवदेदग्नीदग्नीनित्यादिकं तथा । कृणुत व्रतमित्येवं पठन् वाचं विमुञ्चति ।। ९ ॥ मन्त्रौ विधेयौ कालौ वा, मन्त्रावुत्थानमोकयोः । विनियोज्यौ, न कालस्य लक्षणा युज्यते विधौ ॥१०॥ मन्त्रार्थानन्वयात्तत्र तद्विधिनैव शक्यते । अगत्या लक्षणाऽप्यस्तु तेन कालो विधीयते ॥ ११ ॥ १. ते. ब्रा. ३. २. ५. ८.