पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

हविष्कृदाह्वानाधिकरणम् ] तृतीयोऽध्यायः । १३५ , स्वर्गाधिपतिः सहस्राक्षः, तत्रेन्द्रशब्दस्य रूढत्वात् । गौणस्त्विन्द्रो गार्हपत्यः, तस्यैश्वर्य- गुणयोगेन यज्ञसाधनत्वेन वा मुख्येन्द्रसदृशत्वात्। तत्र पूर्वन्यायेन शीघ्रप्रतीत्या मुख्येन्द्रे मन्त्रेण प्रकाशिते सति मन्त्रब्राह्मणयोर्विसंवादं वारयितुं गार्हपत्यशब्देन मुख्येन्द्रो गार्हपत्यसमीपदेशो वा लक्षणीय इति प्राप्ते- ब्रूमः-इन्द्रगार्हपत्यशब्दयोरन्यतरस्य गौणत्वेऽवश्यंभाविनि सति ब्राह्मणवाक्य- स्य विधायकत्वादप्राप्तार्थत्वेन विधौ लक्षणाया अन्याय्यत्वात्प्राप्तार्थत्वेनाऽनुवादको मन्त्र एवेन्द्रशब्देन वह्निं लक्षयिष्यति । ततो गार्हपत्यप्रकाशने समर्थमेव मन्त्रं ‘ऐन्ध्या' इति तृतीयाश्रुतिर्गार्हपत्योपस्थाने विनियुङ्क्ते॥ इति द्वितीयमैन्द्रयधिकरणम् ॥ २ ॥ अथ तृतीयं हविष्कृदाह्वानाधिकरणम् ॥ ३॥ (१)तृतीयाधिकरणमारचयति- हविष्कृदेहीत्यामन्त्र्य त्रिरबघ्नन्समाह्वयेत् । विनियोगोऽवघाते स्यादाह्वाने वाऽवघातके ॥ ५॥ ऐन्द्रीवन्मान्त्रमाह्वानं गौणं हन्तिर्वृथाऽन्यथा । पाठेन प्रापितं त्रित्वं ब्रूयतेरुपचारगीः ॥ ६॥ त्रिरभ्यासो विधातव्यो नित्यप्राप्तेरभावतः । हन्तिना लक्ष्यते कालः प्राप्तोऽसौ ह्वयतिस्तथा ॥७॥ विनियोगे वाक्यभेदो लिङ्गादाह्वानशेषता । नैन्द्रीन्यायः श्रुत्यभावाद्बर्हिन्यायेन मुख्यगः ॥ ८॥ दर्शपूर्णमासयोः श्रूयते-“हविष्कृदेहीति त्रिरबघ्नन्नाह्वयति" इति । देवानामर्थे या हविः सम्पादयति सा हविष्कृत् । तामेनां सम्बोध्याऽध्वर्युः ‘एहि' इति ब्रूते । तथा चायं मन्त्रो ब्राह्मणेन व्याख्यायते-(२)"हविष्कृदेहीत्याह य एव देवानां हविष्कृत. स्तान् ह्वयति" इति । तमिमं मन्त्रमुच्चार्याऽध्वर्युस्त्रिवारमवघातं कुर्वन्नाह्वयतीत्यर्थः । अनेन वाक्येन मन्त्रोऽवघाते विनियुज्यते । ननु आह्वाने समर्थः, न त्ववघात इति चेत्-न; तस्याऽवघातलक्षकत्वात् । यथा पूर्वोदाहृतायामैन्ध्यामृचीन्द्रशब्दो गौणः, तद्वत् 'एहि' इति पदं मन्त्रगतत्वेनावघाते गौणं भविष्यति । अन्यथा मन्त्रब्राह्मणयोरा- १. पूर्वाधिकरणेनाऽस्य आपवादिकी संङ्गतिः । तै. २. ब्रा. ३. २.५.८.