सामग्री पर जाएँ

पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३४ सविस्तरायां जैमिनीयन्यायमालायां [ अ.३.पा.२.अधि.२ (१)“बर्हिर्देवसदनं दामीति लवनप्रकाशको मन्त्र आम्नातः। तत्र लवन- प्रकाशनसामर्थ्यलक्षणेन लिङ्गेनाऽयं मन्त्रो लवनक्रियायां विनियुज्यते । लवितव्यं च बर्हिर्द्विविधम्-मुख्यं गौणं च । मुख्यं कुशकाशादि (२)दशविधदर्भरूपम् । गौणं तु तत्सदृशं तृणान्तरम्, तस्मिन् बर्हिश्शब्दस्य माणवकेऽग्निशब्दवद्गुणयोगेन प्रवृत्तत्वात् । तथा सति मुख्यवद्गौणस्याऽपि शब्दार्थत्वेन दर्भस्य तृणान्तरस्य च लवने मन्त्रविनि- योग इति प्राप्ते-- ब्रूमः--मुख्यस्य शीघ्रप्रतीतत्वेन मुख्य मन्त्रं विनियुज्य चरितार्थ लिङ्गं विलम्ब- प्रतीततया गौणप्रतीक्षां न करोति । तस्मात् मुख्यस्यैव लवने मन्त्रो नियम्यते । इति प्रथमं लिङ्गाधिकरणम् ॥ १ ॥ " अथ द्वितीयमैन्द्यूधिकरणम् ॥ २ ॥ (३)द्वितीयाधिकरणमारचयति- ऐन्द्रया निवेशनेत्यग्निं गार्हपत्यं भजेदिति । प्रकाश्ये मुख्य इन्द्रे वा गौणे मुख्येऽस्तु पूर्ववत् ॥ ३ ॥ एकस्य गौणताध्रौव्ये मन्त्रस्यवानुवादतः । गौणताऽतोऽग्न्युपस्थाने मन्त्रः श्रुत्या नियुज्यते ॥ ४ ॥ अग्निचयने (४)“निवेशनस्सङ्गमनः”इत्यादिका काचिदैन्द्री समाम्नाता । तस्या उत्तरार्धे “इन्द्रो न तस्थौ इति पठ्यमानत्वात् । तन्मन्त्रविषयं ब्राह्मणं चैवमाम्नायते- (५)“निवेशनः संगमनो वसूनामित्यैन्ध्या गार्हपत्यमुपतिष्टते” इति। एतेन ब्राह्मणेन गार्ह. पत्योपस्थाने विनियुज्यमानो मन्त्रोऽर्थ प्रकाशयन्मुख्यमिन्द्रं प्रकाशयति । मुख्यश्चेन्द्रः १. ( मै. सं. १. १. २. ) सीदन्ति अस्मिन्निति सदनम् , देवानां सदनं देवस- दनम् । देवोपवेशनयोग्यमित्यर्थः । तदर्हिर्दामि लुनामीत्यर्थः । २. 'कुशाः काशा यवा दूर्वा गोधूमाश्चाऽथ कुन्दुराः । उशीरा व्रीहयो मुजा दश दर्भाश्च बल्बजाः ॥ इति दशविधा दर्भाः (स्मृ. मु. आह्नि. का. पृ. ४३ ) पूर्वाधिकरणे मुख्यार्थ एव मन्त्राणां विनियोग इत्यभिधायेदानीं तदपवादः प्र- तिपाद्यत इत्यापवादिकी संगतिः । ४. निवेशनस्सङ्गमनो वसूनां विश्वा रूपाभिचष्टे शचीमिः । देव इव सविता सत्यधर्मेन्द्रो न तस्थौ समरे पथीनाम्" ॥ (मे.सं. २.७.११.) इति समग्रो मन्त्रः। ३. मै. सं. ३. २. ४.