१३३ लिङ्गाधिकरणम् ] तृतीयोऽध्यायः । उपलक्षणताऽऽग्नेये युक्ताऽतः सर्वशेषता। अग्नीषोमीय ऐन्द्राग्ने यतोऽस्त्वाग्नेयता ततः ॥ ३५ ॥ नाऽऽग्नेयत्वं तयोर्मुख्यं केवलाग्न्यनुपाश्रयात् । तेनैकस्मिन् पुरोडाशे चतुर्धाकरणास्थितिः ॥ ३६ ॥ इति श्रीमाधवाचार्यविरचितायां जैमिनीयन्यायमालायां तृतीयाध्यायस्य प्रथमः पादः॥ दर्शपूर्णमासयोः श्रूयते–“आग्नेयं चतुर्धा करोति” इति । तत्र आग्नेय- वदैन्द्राग्नाग्नीषोमीययोरपि पुरोडाशयोरग्निसंबन्धादाग्नेयशब्देन पुरोडाशत्रयमुपल- क्ष्यते । ततस्त्रयाणां शेष इति चेत्- मैवम्; न हि 'आग्नेयः' इत्ययं तद्धितः संबन्धमाने विहितः, किन्तु देवतास- म्बन्धे । अग्निश्च केवलो द्विदैवत्ययोः पुरोडाशयोर्न देवता । ततो देवतैकदेशेन कृत्स्न- देवतोपलक्षणत्वादाग्नेयत्वं तयोर्न मुख्यमिति मुख्य एवाऽऽग्नेये चतुर्धाकरणं व्यवतिष्ठते ॥ इति पञ्चदशं चतुर्धाकरणाधिकरणम् ॥ १५ ॥ इति श्रीमाधवाचार्यविरचिते जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य प्रथमः पादः ॥ १ ॥ अथ तृतीयाध्यायस्य द्वितीयः पादः ॥ तत्र प्रथमं लिङ्गाधिकरणम् ॥ १॥ (१)द्वितीयपादे प्रथमाधिकरणमारचयति- देवोपसदनं बर्हिर्दामिगीर्मुख्यगौणयोः । तल्लिङ्गमर्थयोर्मन्त्रं नियुङ्क्ते मुख्य एव वा ॥१॥ शब्दार्थत्वाद्वयोस्तत्र युज्यते विनियोजनम् । प्रथमावगतत्वेन मुख्य तद्विनियम्यते ॥२॥ १. पूर्वस्मिन् पादे अङ्गत्वबोधकप्रमाणेषु श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यारू- पेषु श्रुतिर्विचारिता । इदानी द्वितीयपादे क्रमप्राप्तं द्वितीयं लिङ्गप्रमाणं विचार्यते । १२ जै० न्या०
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१३४
दिखावट