पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३२ सविस्तरायां जैमिनीयन्यायमालायां [ अ. ३. पा. १.अधि. १४ अथ चतुर्दशं हस्तावनेजनाधिकरणम् ॥ १४ ॥ चतुर्दशाधिकरणमारचयति- हस्तौ द्वाववनेनिक्ते स्तृणात्युलपराजिकाम् । दर्भास्तरण एवाऽङ्गं हस्तशुद्धिरुताऽखिले ।। ३२ ।। तन्मात्राङ्गत्वमत्र स्यादानन्तर्यात्मकात्क्रमात् । लिङ्गप्रकरणाभ्यां तु सर्वानुष्ठानशेषता ॥ ३३ ॥ दर्शपूर्णमासप्रकरणे श्रूयते-(१)"हस्ताववनेनिक्ते,(२)"उलपराजिं स्तृणाति" इति । वेद्यमास्तरितुं संपादितस्तृणस्तम्ब उलपराजिः । तत्र हस्तशुद्धिदर्भास्तरणवाक्य- योनैर्रन्तर्येण पठितत्वात्क्रमप्रमाणेन हस्तशुद्धिरास्तरणमात्रस्याऽङ्गमिति चेत्-- मैवम्, अवनेजनं हस्तसंस्कारः । 'संस्कृतौ च हस्तौ सर्वानुष्ठानयोग्यौ' इत्येता- दृशं सामर्थ्य लिङ्गम् । प्रकरणं च दर्शपूर्णमासयोः स्फुटम् । अतः प्रबलाभ्यां लिङ्गप्र. करणाभ्यां क्रमवाधात्सर्वशेषो हस्तशुद्धिः । अयं न्यायो वाग्यमेऽपि द्रष्टव्यः । स च वाग्यमो ज्योतिष्टोमप्रकरणे श्रुतः-(३) "मुष्टीकरोति। "वाचं यच्छति" इति । तदनन्तरमेवेदं श्रुतम्-“दीक्षितमावेदयति" इति । आवेदनप्रकारश्चैवं श्रुतः-अदीक्षिष्टाऽयं ब्राह्मण इति त्रिरुपांश्वाह देवेभ्य एवैनं प्राह, त्रिरुच्चैरुभयेभ्य एवैनं देवमनुष्येभ्यः प्राह” इति । अत्र मुष्टीकरणवानियमाभ्यां हस्तजिह्वागतचापले निवारिते सति मनस एकाग्रस्य सर्वकर्मसु योग्यत्वं लिङ्गम् । तेन क्रमो बाध्यते ॥ इति चतुर्दशं हस्तावनेजनाधिकरणम् ॥ १४ ॥ > . - अथ पञ्चदशं चतुर्धाकरणाधिकरणम् ॥ १४ ॥ पञ्चदशाधिकरणमारचयति- चतुर्धा कार्य आग्नेयः पुरोडाश इतीरितम् । चतुर्धाकरणं सर्वशेषो वाऽऽग्नेयमात्रगम् ॥ ३४ ॥ १. तै. ब्रा. ३. २. १०. २. उलपाः तृणविशेषाः दर्भसदृशाः । तान् वेद्यामास्तृणातीत्यर्थः । ३. (तै. सं. ६. १. ४. ३. ) 'मुष्टीकरोति' हस्तयोर्मुष्टिरूपेण बन्धनं कुर्यात् , 'याचं यच्छति' वाग्बन्धनं कुर्यादित्यर्थः ।