पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वात्रधनन्यधिकरणम् ] तृतीयोऽध्यायः । ३१ - अथ त्रयोदशं वार्त्रध्न्यधिकरणम् ॥ १३ ॥ त्रयोदशाधिकरणमारचयति- वार्त्रध्न्यौ पूर्णमासे स्तो वृधन्वत्यौ तु दर्शगे । इति प्रधानशेषत्वमुक्तं किं वा व्यवस्थितिः ॥ २६ ॥ क्रमेण प्रापिता मन्त्राश्चत्वारोऽप्याज्यभागयोः । क्रमाद्वाक्यं बलीयोऽत एषां दर्शादिशेषता ॥ ३० ॥ न मुख्ये सोम एकोऽस्ति नाऽऽधारत्वादिकालयोः। दर्शादेरव्यवस्थित्याप्राप्तौ वाक्यायवस्थितिः ।। ३१ ।। दर्शपूर्णमासप्रकरणे श्रूयते-(१)"वाघ्नी पूर्णमासेऽनूच्येते, वृधन्वती अ- मावास्यायाम्” इति । तत्र-इदं वार्त्रध्नयुगलं वृधन्वतीयुगल च हौत्रकाण्ड आज्यभा- गयोः क्रमे(२) "अग्निर्वृत्राणि जङ्घनत्” इत्यनुवाकेऽऽम्नातम् । उदाहृतेन तु ब्राह्म- णवाक्येन दर्शपूर्णमासयागयास्तद्विधिरवगम्यते । तत्र वाक्यस्य प्रबलत्वादेषां मन्त्रा- णां दर्शपूर्णमासयागाङ्गत्वम्, न त्वाज्यभागाङ्गत्वमिति प्राप्ते- ब्रूमः—“अग्निर्वृत्राणि जङ्घनत्” इत्याग्नेयी प्रथमा वार्त्रघ्री,(३)"त्वं सोमासि स- त्पतिः” इति सौम्या द्वितीया वार्त्रघ्नी । (४)"अग्निः प्रत्नेन जन्मना”इत्याग्नेयी प्रथमा वृधन्वती। (५)“सोम गीर्भिष्ट्वा वयम्' इति सौम्या द्वितीया वृधन्वती। तत्र मु- ख्ययोर्दर्शपूर्णमासयागयोराग्नेयपुरोडाशसद्भावादाग्नेयीद्वयस्य विकल्पेन पुरोनुवाक्यात्वं कथंचिद्भवतु । सौम्ययोस्तु तन्न संभवति, सोमदेवताया अभावात् । न ह्यग्नीषो- मीयेऽपि केवलः सोमो विद्यते। किंच 'पूर्णमासे, अमावास्यायाम्' इति सप्तमीभ्यामाधा- रत्वं गम्यते। तच्च यागवाचित्वे यागस्य मुख्यत्वान्न संभवति । कालस्य तूपसर्जनत्वात्त- द्वाचित्वं युक्तम् । किंच प्रयाजमन्त्रानुवाकस्याऽनन्तरमेवाऽयमनुवाकः पठितः । स चाऽs- ज्यभागयोरङ्गयोः क्रमः । न तु मुख्ययोर्दर्शपूर्णमासयोः । तस्मान्न मन्त्रचतुष्टयस्य मु- ख्ययागाङ्गत्वम् , किं त्वाज्यभागाङ्गत्वम् । ननु एतत् क्रमेणैव लब्धम् । तत्राऽपि आग्नेये प्रथमाज्यभागे मन्त्रोऽप्याग्नेयः । सौम्ये द्वितीये साम्यः' इत्येषा व्यवस्था लिङ्गेनैव लभ्य. ते। बाढम् ; तथाऽपि 'वार्त्रघ्नीयुगलं पौर्णमासीकाले, वृवन्वतीयुगलममावास्यायाम्' इत्ये- षा व्यवस्था पूर्वमप्राप्ता ब्राह्मणवाक्येनाऽभिधीयत इति न वैयर्थ्यम् ॥ इति त्रयोदशं वार्त्रध्न्यधिकरणम् ॥ १३ ॥ १. तै. सं. २. ५. २. ५. २. तै. ब्रा. ३. ५. ६. अत्र समग्रा मन्त्राः पौर्णमास्यधिकरणे ९२ पृष्ठे टिप्पण्यां ३. ते. ब्रा. ३. ५. ६. ४. ते. वा. ३. ५. ६. ते. ब्रा. ३. ५. ६. द्रष्टव्याः। ५.