पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३० सविस्तरायां जैमिनीयन्यायमालायां [अ.३. पा. १. अधि. १२ - अथ द्वादशं वारणादीनां सर्वयज्ञार्थत्वाधिकरणम् ॥ १२ ॥ द्वादशाधिकरणमारचयति- वैकङ्कतादिकं पात्रं पत्रमानहविष्ष्यथ । यज्ञेऽखिले प्रकरणादाधानेऽन्वितमत्र तत् ॥ २७ ।। अनर्थकं तदङ्गेषु हविष्ष्वेवावतिष्ठते ॥ नाऽऽधानहविपां साम्याद्वाक्याद्यज्ञेऽखिले भवेत् ॥ २८ ॥ आधानप्रकरणे दारुपात्रं होमार्थ यज्ञार्थं च श्रूयते-(१)"तस्माद्वारणो यज्ञाव- चरः स्यान्न त्वेतेन जुहुयात् , वैकङ्कतो यज्ञावचरः स्याज्जुहुयादेवैतेन” इति । यज्ञाव- चरो यज्ञप्रचारहेतुः । तत्र- -वारणवैकङ्कतादिपात्रं प्रकरणबलादाधाने प्रथममन्वेति । ए- तेन पात्रेणाऽऽधाने प्रयोजनाभावादाधानाङ्गेषु (२)पवमानहविष्ष्वेव तत्पात्रं निविशते। अस्ति हि पवमानहविषामाधानाङ्गत्वम्, तत्प्रकरणे पाठात् । (३)"कृत्तिकास्वग्निमाद. धीत' इत्यस्मिन् प्रकरणे(४) “प्रजापतिर्वाचः सत्यमपश्यत्' इत्यस्मिन्ननुवाके "त्रीणि हवींषि निर्वपति" इत्यादिना तानि विहितानि । ततो यथा सप्तदशारत्नित्वं वाजपेये साक्षादसम्भवत्तदङ्गपशोरङ्गे निविशते, तद्वदिदमपीति प्राप्ते- ब्रूमः-अग्निमुद्दिश्याऽऽधानं यथा विहितं, तथा पवमानहवींष्यपि। (५)“यदाह- वनीये जुह्वति तेन सोऽस्याभीष्टः प्रोतः'इत्याहवनीयोद्देशेन पवमानहविर्होमविधानात् । तस्मादग्निसंस्कारत्वेन समाम्नातानामाधानहविषां नाऽस्ति परस्परमङ्गाङ्गिभावः । तथा सति प्रकरणस्य पात्रं प्रति विनियोजकत्वाभावात् “वैकङ्कतो यज्ञावचरः” इति वाक्येन दर्शपूर्णमासादि(६)सर्वयज्ञेषु तद्विनियुज्यते ॥ इति द्वादशं वारणादीनां सर्वयज्ञार्थत्वाधिकरणम् ॥ १२ ॥ १. (मै सं. १.६ ७.) वारणः वरणवृक्षजन्यः, वैकङ्कतः विकङ्कतवृक्षजन्य इत्यर्थः । २. "त्रीणि हवींषि निर्वपति-अग्नये पवमानाय पुरोडाशमष्टाकपालं निर्वपेत् , अग्नये पावकाय, अग्नये शुचय' (तै.ब्रा. १.१.५ १०.) इति विहितानि पवमानहवींषि ३. तै. ब्रा. १. १. २. १. ४. ते. ब्रा. १. १. ५. १. ५. (ते. वा. १. १. १०. ५. )अत्राऽऽहवनीय इति सप्तमी द्वितीयार्थे । अत- श्चाऽऽहवनीयस्य कर्मत्वेनाऽन्वयः। धात्वर्थस्य करणत्वेन चाऽन्वयः । तथा च पवमा- नहविस्सम्बन्धिहोमैराहवनीयं संपादयेदिति वाक्यार्थः । तदेतदभिप्रेत्योक्तं-'आहवनी. योद्देशेने ति । ६. यद्यपि यज्ञावचरवाक्यस्य प्रकरणे विनियोगासम्भवेन ततो विच्छेदे सति अनारभ्याधीतन्यायेन प्रकृतिमात्रगामित्वं युक्तम्, तथाऽपि अत्र यज्ञशब्दोपादानातू तस्य च प्रकृतिविकृत्युभयसाधारण्येन सर्वयज्ञवाचकत्वात् सर्वार्थत्वं बोध्यम् । >