पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उपवीताधिकरणम् ] तृतीयोऽध्यायः। १२९ - , अथैकादशमुपवीताधिकरणम् ॥ ११ ॥ एकादशाधिकरणमारचयति- उपव्ययत इत्यस्य सामिधेन्यङ्गताऽथवा । दर्शाङ्गता प्रक्रियैषाऽवन्तराऽतोऽस्त्विहाग्रिमः ॥ २५ ॥ लिङ्गादग्नेरङ्गभूतैर्निवित्संज्ञकमन्त्रकैः । विच्छेदे सति दर्शाङ्गं महाप्रकरणोक्तितः ॥ २६ ॥ (१)दर्शपूर्णमासप्रकरणे(२) "विश्वरूपो वै त्वाष्ट्रः” इत्यस्मिनू प्रपाठके सप्त-

माष्टमयोरनुवाकयोः सामिधेनीब्राह्मणमाम्नातम् । नवमे-निवित्संज्ञकानां "अग्ने महां असि ब्राह्मण भारत" इत्यादीनां मन्त्रणां ब्राह्मणम् । दशमे-काम्याः सामिधे- नीपक्षाः । एकादशे तु उपवीतमेवं विहितम्-(३)“निवीतं मनुष्याणाम् , प्राचीना. वीतं पितॄणाम् , उपवीतं देवानाम् , उपव्ययते देवलक्ष्ममेव तत्कुरुते” इति । तत्र पूर्वन्यायेन सामिधेनीप्रकरणस्य (४)अवान्तरस्याऽङ्गीकारात्सामिधेन्यामुपवीत मिति चेत्- न; निविद्ब्राह्मणेन सामिधेनीप्रकरणस्य विच्छेदितत्वात् । न च निविदामपि सामिधेन्यतया तत्प्रकरणपाठादविच्छेदकत्वमिति वाच्यम् , लिङ्गेन निविदामग्न्यङ्गत्वा- वगमात् । आहुत्यधिकरणभूतमग्नि सम्बोध्य “महानसि” इत्यादिभिर्निविद्वाक्यैरग्नेरु- त्साहजननाय तद्गुणा आवेद्यन्ते । अत एव निर्वचनमेवं श्रूयते—(५)निविद्भिर्यवे- दयेत् तन्निविदां निवित्त्वम्” इति । ननु 'सम्यगिध्यतेऽग्निर्याभिर्ऋग्भिस्ताः. सामि. धेन्यः' इति व्युत्पत्त्या ता अप्यत्र ज्वलनद्वारेणाऽग्न्यर्था एवेति चेत्–सन्तु नाम'; नैतावता परस्परमङ्गाङ्गिभावः । ननु विच्छिद्यतां सामधेनीप्रकरणम् , निवित्प्रकरणेनो- पवीतस्य निविदङ्गत्वं स्यादिति चेत्-न ; पूर्वोत्तरानुवाकयोर्निविदामश्रवणेन प्रकरणा- भावात् सन्निधिना तदङ्गत्वमिति चेत्-न ; काम्यसामिधेनीभिर्व्यवधानात् । न च काम्यसामिधेन्यङ्गता शङ्कनीया, सन्निधितः प्रकरणस्य प्रबलत्वात् । तस्मादिह प्रया- जन्यायाभावान्महाप्रकरणेन दर्शपूर्णमासाङ्ग मुपवीतम् ॥ इत्येकादशमुपवीताधिकरणम् ॥ ११ ॥ - दयत्, - १. तैत्तिरीयसंहितायामिति पूरणीयम् । २. तै. सं. २.५.१. ३. तै. सं. २. ५. ११. १. ४. 'फलभावनायाः प्रकरणं महाप्रकरणम् । तदन्तराले यदङ्गभावनायाः प्रकरणं तदवान्तरप्रकरणमिति तयोर्लक्षणमुक्तं न्यायप्रकाशे । तत्स्वरूपं च विशेषतस्तत एवा- ऽवगन्तव्यम् । तै. ब्रा. २. २. ८.५.