पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२६ सविस्तरायांजैमिनीयन्यायमालायां [अ. ३.पा.१.अधि.८. तत्र यथा “पशुना यजेत' इत्यत्रोपादेयपशुगतमेकत्वं विवक्षितम् , तद्वदुद्देश्यग्रह- गतमप्येकत्वं विवक्षितव्यम् । किञ्च ग्रहशब्दस्य जातिवाचित्वेन जातेः संस्कार्यत्वे सति तदाश्रयभूते यस्मिन् कस्मिन्नपि द्रव्येऽनुष्ठितेन संस्कारेण जातिः संस्कृता भवति । तस्मादेक एव ग्रहः शोधनीय इति प्राप्ते- ब्रूमः-'ग्रहम्' इति द्वितीयया ग्रहस्योद्देश्यतया प्रयोजनवत्तया च प्राधान्यं गम्य- ते । ग्रहं प्रति गुणः संमार्गः । 'प्रतिप्रधानं च गुण आवर्तनीयः' इति न्यायेन यावन्तो ग्रहाः सन्ति, ते संमार्जनीयाः। एवं निश्चये सति संमार्जयितव्यग्रहेयत्ताया अबुभुत्सि- तत्वादुद्देश्यगतमेकत्वं श्रूयमाणमप्यविवक्षितम् । अशोच्येत–नेदमुद्देश्यगतम् , किंतु द्वयं विधेयमिति । तन्न; वाक्यभेदापत्तेः । ग्रहं संमृज्यात् , तं चैकम् इत्येवं विधेयार्थभेदाद्वाक्यभेदः । 'पशुना यजेत' इत्यत्र तु यागं प्रति गुणभूतः पशुः । न हि प्रतिगुणं प्रधानस्याऽऽवृत्तिरिति कश्चिन्न्यायोऽस्ति। तत इयत्ताया वुभुत्सित- त्वाच्छ्रयमाणमेकत्वं विवक्ष्यत इति वैषम्यम् । न च जातिः संस्कार्या, तस्या अमूर्त- त्वात् । ततो जातिद्वारा द्रव्यलक्षको गुणशब्दः । तत्र चाऽऽवृत्तिरुक्ता । तस्मात् सर्वे ग्रहाः संमार्जनीयाः ॥ इति सप्तमं ग्रहैकत्वाधिकरणम् ॥ ७ ॥ अथाऽष्टमं चमसाधिकरणम् ॥ ८ ॥ अष्टमाधिकरणमारचयति- चमसादि च संमृज्यान्नो वा तस्याऽस्ति मार्जनम् । एकत्ववद्ग्रहत्वस्याऽप्यनादरणसम्भवात् ॥ १५ ॥ अबाधोऽत्राऽऽदरे हेतुर्वाक्यभेदस्तु नैव हि । चमसादौ न संमार्गः श्रुत्या तद्विषयार्पणात् ॥ १६ ॥ 'ग्रहम्' इत्यत्र प्रत्ययार्थभूतमेकत्वं यथा न विवक्षितम् , तथा प्रातिपादिकार्थस्य ग्रहत्वस्याऽप्यविवक्षा संभाव्यते। ततो ग्रहशब्दस्य सोमपात्रोपलक्षकत्वाद्ग्रहाणामिव(१) चमसानामपि संमार्गेण सोमावसेकनिर्हरणप्रयोजनसम्भवाच्चमसादयोऽपि मार्जनीया इति प्राप्ते- ब्रूमः-एकत्वं वाक्यभेदेन दुष्टत्वादविवक्षितम् । अदुष्टं तु ग्रहत्वं कुतो न विव- श्येत । ततः सत्यपि प्रयोजने प्रमाणाभावाच्चमसादौ नाऽस्ति संमार्गः । न च विषया. पेक्षया तत्कल्पनम् , ग्रहश्रुत्यैव तद्विषयसमर्पणात् । तस्मान्नाऽस्ति संमार्गः ॥ इत्यष्टमं चमसाधिकरणम् ॥ ८ ॥ , - 2 VW १. चमसो नाम चतुरस्राकारः सत्सरुकः सबिलो दारवः पात्रविशेषः ।