ग्रहैकत्वाधिकरणम् ] तृतीयोऽध्यायः। १२५ होत्रे पयोदध्यादिविकल्पवत्क्रयानुवादेन वस्त्रादिद्रव्य विकल्पो विधीयते । अनुवाद्यस्य क्रय- मात्रस्याऽग्निहोत्रवदन्यत्राऽविधानात् । ततो वस्त्रादिद्रव्यविशिष्टाः क्रयान्तरविधयः। न हि स्ववाक्यगतमेकहायनीद्रव्यमुपेक्ष्य वस्त्राद्यवच्छेदो युक्तः । तस्मात्क्रयेण साक्षादन्वित- योर्द्रव्यगुणयोःपश्चादर्थापत्त्या परस्परावच्छेदकत्वेनाऽन्वयः। तथा सति आरुण्यविशिष्टै- कहायन्या क्रीणातीत्यर्थः पर्यवस्यति । तस्मात् आरुण्यगुणः क्रयहेतुमेकहायनीमेव भजते । इति षष्ठमरुणाधिकरणम् ॥ ६ ॥ 1 UA - , अथ सप्तमं ग्रहैकत्वाधिकरणम् ॥ ७ ७॥ सप्तमाधिकरणमारचयति- संमार्ष्टि ग्रहमित्येको ग्रहः शोध्य उताऽखिलः । एक उद्देश्यसंख्याया उपादेयवदादरात् ॥ १३ ।। प्राधान्यात्तद्गुणावृत्तेरेकत्वमनपेक्षितम् । तद्विधौ वाक्यभेदोऽतो द्रव्योक्त्या सर्वशोधनम् ।। १४ ॥ सोमे श्रूयते-(१) “दशापवित्रेण ग्रहं संमार्ष्टि इति । दशापवित्रं वासःखण्डः । वाक्येषु दश क्रयाः तत्तद्गुणविशिष्टा विधीयन्त इति । इदञ्च गुणरहितकेवलक्रयविध्य- भावमभिप्रेत्य । यदा तु तस्मात्सोमं क्रीणातीति केवलक्रयमात्रविधायकं वाक्यमस्ती- त्यभ्युपगम्यते, तदा तद्विहिते क्रये एकहायन्यादिवाक्यैर्गुणमात्रं समर्प्यते । तेषाञ्च विकल्प इति कुतूहलवृत्तिकारोक्त्तमेव साध्वित्यवगन्तव्यम् । १. सोमयागे ऐन्द्रवायवादयो ग्रहा धारातो गृह्यन्ते । तत्प्रकारस्तु-अभिषव- प्रकरणोक्तप्रकारेण सोममभिषुत्य तं सरसमाधवनीयसंज्ञके सोदके कलशे निक्षिप्य परि- प्लाव्य हस्तेन निष्पीड्य, ततो निस्सारमृजोषाख्यं बहिर्निष्कास्याऽधिषवणफलकोपरि प्रसार्य तदुपरि द्रोणकलशाख्यं पात्रं स्थापयित्वा, तत उपरि वस्त्रखण्डं मध्ये स. च्छेदमूर्णाकृतनाभिं ( सोमरसस्य धारारूपेण पतनार्थ ) वितत्य, उद्गातृपुरुषाश्चतुर्षु कोणेषु धारयेयुः। ततो यजमानो निग्राभ्यसंज्ञकजलविशिष्टं होतृचमसं स्वहस्ते धार- येत् । तत उन्नेता आधवनोयपात्रस्थं सोमरसं यजमानहस्तस्थितहोतृचमसे समानयेत् । यजमानस्तं रसं पवित्राख्ये वस्त्रखण्डे समानयेत् । तत्र समानीतस्सोमरसः परिपूतो वस्त्र- स्थितनाभिद्वारा तनीयस्या धारया अधः पतन्निन्द्रवाय्वादिदेवताभ्य उलूखलाकारेषु पात्रेषु गृह्यते। ग्रहणकाले पात्रोपरि लग्नस्य सोमस्य प्रोञ्छनं सम्मार्ग इत्युच्यते । स ए- वाऽत्र 'दशापवित्रेण ग्रहं सम्माष्टी'त्यनेन विधीयते। पवित्रार्थं यद्वासस्तदेव दशापवि- त्राभिधेयमिति विस्तरकृदाशयः । एतच्च ‘दशापवित्रेण परिमृज्येति कात्यायनादिसूत्रा. नुगुणम् । 'पवित्रदशाभिः परिमृज्ये त्यापस्तम्बसूत्रानुरोधेन तु-पवित्रस्य शोधकस्य वस्त्रखण्डस्य या दशा अग्राणि, ताभिः परिमृज्यादित्यर्थो बोध्यः ।
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१२६
दिखावट