१२७ अभिक्रमणाधिकरणम् ]] तृतीयोऽध्यायः । अथ नवममानर्थक्यतदङ्गाधिकरणम् ॥ ४॥ नवमाधिकरणमारचयति- भवेत्सप्तदशारत्निर्वाजपेयस्य यूपकः । उन्मानं द्रव्यगं वाजपेयस्याऽङ्गं पशोरुत ॥ १७ ॥ आनन्तर्यात्प्रकरणात्कर्माङ्ग पोडशिन्यदः । ऊर्ध्वपात्रे खादिरेऽग्रे संयुज्याऽन्वेति कर्मणा ॥ १८ ॥ यूपद्वारा पशोरङ्गं पशुद्वारा च कर्मणः । सौमिकत्वाद्वाजपेये यूपो नाऽस्ति पशुं विना ॥ १६ ॥ वाजपेयप्रकरणे श्रूयते- 'सप्तदशारनिर्वाजपेयस्य यूपो भवतीति । तत्र यूपद्रव्यगतं सप्तदशारत्निशब्दोदितं यदूर्ध्वमानं तद्वाजपेयकर्मणोऽङ्गम् , सप्तदशारत्नि- शब्दवाजपेयशब्दयोरानन्तर्यात् । प्रकरणं चैवमनुगृह्यते । यदि कर्मणः साक्षादूर्ध्वमानं न सम्भवेत् , तर्हि वाजपेयगतं खादिरमूर्ध्वं यत्षोडशिपात्रं तस्मिन्नद उन्मानं प्रथमं सम्बध्य तद्द्वारा कर्मणाऽन्वेतीति प्राप्ते- ब्रूमः–'सप्तदशारत्निर्यूपः' इति सामानाधिकरण्यापेन साक्षात्सम्बध्यते । तस्य यूपस्य पश्वङ्गत्वादुन्मानं यूपद्वारा पशोरङ्गं भवति । तस्याऽपि पशोर्वाजपेयाङ्गत्वात्पशु- द्वारा कर्मणोऽङ्गम् । यद्यपि वाजपेययूपशब्दयोरानन्तर्यमस्ति, तथाऽपि वाजपेयस्य सोमयागतया साक्षायूपसम्बन्धाभावात्पशुव्यवधानमभ्युपेयम् । 'वाजपेयस्य' इति षष्ठयाः सम्बन्धमात्रवाचित्वेन व्यवहितसम्बन्धमप्यसावभिधत्ते । 'देवदत्तस्य नप्ता' इति प्रयोगात् । यत्तु–सप्तदशारत्निवाजपेयशब्दयोरानन्तर्यम् , यच्च प्रकरणम् । तदुभयमप्यविरुद्धम् , पश्वङ्गत्वेऽप्यन्ततो वाजपेयाङ्गत्वाङ्गीकारात् । किंच पूर्वपक्षे यूपशब्देन षोडशिपात्रं लक्षणीयम् । सिद्धान्ते तु नाऽसौ दोषः ॥ इति नवममानर्थक्यतदङ्गाधिकरणम् ॥ ९ ॥ - , 2 अथ दशममभिक्रमणाधिकरणम् ॥ १० ॥ दशमाधिकरणमारचयति- अभिक्रामं जुहोतीति युक्तं कर्ताऽखिलस्य तत् । किंवा प्रयाजमात्रस्य कृत्स्नकर्तृयुतं भवेत् ॥ २० ॥ प्रयाजाभिक्रमणयोः क्रियात्वादुभयोरपि । मिथस्सम्बन्धराहित्यात्, मैवं तेऽपि समत्वतः ॥२१॥
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१२८
दिखावट