११८ सविस्तरायां जैमिनीयन्यायमालायां [अ.२. पा. ४. अधि, २ > " कृत्स्नजीवनम् । न च जीवनं कर्मधर्मत्वेन विधातुं शक्यम् , तस्य पुरुषधर्मत्वात् । तं च पुरुषधर्म निमित्तीकृत्याऽग्निहोत्रप्रयोगो विधीयते । न चाऽत्र कर्मभेदः, तद्धे- तूनां शब्दान्तरादीनामभावात् । न चाऽभ्यासस्तद्धेतुः, निमित्तविशेषसद्भावेनाऽविशे- षपुनःश्रुतेरभावात् । अतः प्रयोगभेदः पर्यवस्यति, जीवनस्याऽत्र निमित्तत्वात् । सति निमित्ते नैमित्तिकस्य त्यागायोगान्नित्यत्वमर्थसिद्धम् । न च जीवननिमित्तनैरन्तर्येण प्रयोगनैरन्तर्यापत्तिः, सायंप्रातःकालयोर्विहितत्वात् । तस्मात् जीवनस्य पुरुषधर्मत्वा- न्नित्यकाम्यप्रयोगौ भिन्नौ ॥ इति प्रथमं यावज्जीवाधिकरणम् ॥ १ ॥ अथ द्वितीयं शाखान्तराधिकरणम् ॥ २॥ द्वितीयाधिकरणमारचयति- शाखाभेदात्कर्मभेदो न वा, कर्मात्र भिद्यते । दृष्ट काठकनामादि बहुभेदस्य कारणम् ॥ ३ ॥ ग्रन्थद्वारादिना ह्यते युज्यन्ते भेदहेतवः । रूपादिप्रत्यभिज्ञानादभिन्नं कर्म गम्यते ॥ ४ ॥ इति श्रीमाधवाचार्यविरचितायां जैमिनीयन्यायमालायां द्वितीयाध्यायस्य चतुर्थः पादः ॥ काठककाण्वमाध्यन्दिनतैत्तिरीयादिशाखासु दर्शपूर्णमासाख्यं कर्माss- म्नातम् । तत्र शाखाभेदात्कर्म भिद्यते। कुतः ? भेदकारणानां नामभेदादीनां बहूना- मुपलम्भात् । काठककारावादिको नामभेदः । कारीरीवाक्यान्यधीयानाः केचि- च्छाखिनो(१) भूमौ भोजनमाचरन्ति, शाखान्तराध्यायिनो नाऽऽचरन्तीति धर्मभेदः । एकस्यां शाखायामधीताः “इषे त्वा' इत्यादयो मन्त्राः, पलाशशाखाच्छेदादयः क्रियाश्च शाखान्तरेऽप्यधीयन्त इति पुनरुक्तिः । एवमशक्त्यादयो भेदहेतव उदा- हार्याः । न ह्यल्पायुषा मनुष्येण सर्वशाखाध्ययनपूर्वकं कर्मानुष्ठानं कर्तुं शक्यम् । तस्मात् शाखाभेदेन कर्मभेद इति प्राप्ते- ब्रूम:-रूपाधभेदादेकं कर्म । आग्नेयाष्टाकपालादियागरूपं यदेवैकस्यां शाखा- १. भोजनविधिरयं 'अक्षारलवणं भूमौ मुखेन पशुवत्कविः । चतूरात्रन्तु भुञ्जीत कारीर्यध्ययने व्रतमिति तैत्तिरीयकाण्डानुक्रमणिकायां ( ३. १९. .) स्पष्टः । ।
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/११९
दिखावट