यावज्जीवाधिकरणम् ] द्वितीयोऽध्यायः। ११७ । (१)“यदाग्नेयोऽष्टाकपालोऽमावास्यायां च पौर्णमास्यां चाऽच्युतो भवति" इति- कालद्वये विहितम् । (२)“यदाग्नेयोऽष्टाकपालोऽमावास्यायां भवति" इत्येकत्मिन् काले पुनर्विहितम् । तत्र-अविशेषपुनःश्रुतिलक्षणेनाऽभ्यासेन प्रयाजानामिव भेदः । तथा सत्याग्नेययागस्य दर्शकाले द्विःप्रयोग इति चेत्- न; प्रत्यभिज्ञानादाग्नेयस्यैकत्वे सत्येककालवाक्यस्याऽनुवादकत्वात् । न चानु- वादो व्यर्थः, विधेयेन्द्राग्नस्तुत्यर्थत्वात् । यद्यप्याग्नेयोऽष्टाकपालोऽमावास्यायां भवति, तथाऽपि न केवलेनाऽग्निना साधुर्भवति । इन्द्रसहितोऽग्निः समीचीनतरः । तस्मात् “ऐन्द्राग्नः कर्तव्यः' इति विधेयस्तुतिः । प्रयाजवैषम्यं तूक्तमेवाऽनुसन्धेयम् ॥ - , " इति श्रीमाधवाचार्यविरचिते जैमिनीयन्यायमालाविस्तरे द्वितीयाध्यायस्य तृतीयः पादः ॥ ३ ॥ अथ द्वितीयाध्यायस्य चतुर्थः पादः ॥ तत्र प्रथमं यावज्जीवाधिकरणम् ॥ १॥ चतुर्थपादस्य प्रथमाधिकरणमारचयति- यावज्जीवं जुहोतीति धर्मः कर्मणि पुंसि वा । कालत्वात्कर्मधर्मोऽतः काम्य एकः प्रयुज्यताम् ॥ १॥ न कालो जीवनं तेन निमित्तप्रविभागतः । काम्यप्रयोगो भिन्नः स्याद्यावज्जीवप्रयोगतः ॥२॥ वहृृचब्राह्मणे श्रूयते-"यावज्जीवमग्निहोत्रं जुहोति" इति । तत्र--याव- ज्जीवशब्दो मरणावधिकालपरः । तत्कालसंबन्धश्च प्रकृते काम्याग्निहोत्रे पूर्वमप्राप्त- त्वात् 'जुहोति' इत्यनूदिते कर्मणि विधीयते । तथा सत्यस्य वाक्यस्य नित्यप्रयोगवि- धायकत्वाभावेन वाक्यान्तरविहितः काम्यप्रयोग एक एवाऽग्निहोत्रस्य पर्यवस्यति । स च काम्यप्रयोगोऽभ्यसितव्यः, सकृदनुष्ठानस्य “अग्निहोत्रं जुहुयात्स्वर्गकामः' इत्यने- नैव सिद्धत्वात् । 'यावज्जीवम्' इत्यस्य कालविधेर्वैयर्थ्य प्रसङ्गात् । तस्मात्- काम्यकर्मणोऽभ्याससिद्धये कालरूपधर्मविधिरिति प्राप्ते- ब्रूमः-यावज्जीवशब्दो न कालस्य वाचकः, किन्तु लक्षकः । वाच्यार्थस्तु- १ ते. सं. २. ६. ३. ३. २. तै. सं. २. ५. ३. २. " , -अयं >
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/११८
दिखावट