पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

" - ११६ सविस्तरायां जैमिनीयन्यायमालायां [अ. २. पा. ३. अधि. १४. अन्नाद्यकाम इत्यादौ कर्मभेदोऽथवा गुणः ॥ ३० ॥ विध्युपादानयोरैक्याद्देशादेरनुपत्तितः । आवश्यके कर्मविधौ तद्भेदः पुनरुक्तितः ॥ ३१ ।। देशादियोगस्याऽप्राप्तेर्विधिर्न ह्येकता तयोः । पुंशब्दयोर्व्यापृतित्वात्पुनरुक्त्या त्वनूद्यते ।। ३२ ।। दर्शपूर्णमासप्रकरणे देशकालनिमित्तान्याम्नायन्ते–“समे यजेत' “पौर्णमास्यां यजेत” “यावज्जीवं दर्शपूर्णमासाभ्यां यजेत” इति । अवेष्टिप्रकरणे फलमान्नातम्- "एतयाऽन्नाद्यकामं याजयेत्” इति । आदिशब्देन संस्कारो गृहीतः । स च दर्शपूर्ण- मासप्रकरणे समाम्नातः- "शेष स्विष्टकृते समवद्यति' इति । तत्र-देशकालनिमि- त्तफलसंस्कारा अननुष्ठेयत्वादनुपादेयाः । अत एव न विधेयाः । उपादानविधिशब्द- योः पर्यायत्वात् । ततः कर्मविधिरित्यवदयमभ्युपेयम् । तत्र-प्रकरणिनो दर्शा- । देः पूर्वविहितस्यैवैभिर्वाक्यैः पुनर्विधाने “समिधो यजती' त्यादिवदभ्यासादेव कर्म- भेद इति प्राप्ते- ब्रूमः-देशादीनामविधेयत्वेऽपि विहितकर्मणा सह तेषां संबन्धो विधीयताम् । स च कर्मवत्पूर्वं न विहित इत्यप्राप्तत्वाद्विधिमर्हति । यदुक्तम्-उपादानविधिशब्दौ पर्याय विति । तदसत् ; 'अप्रवृत्तप्रवर्तन विधानम् , तच्च पुरुषविषयः शब्दव्यापारः । अननुष्ठितस्याऽनुष्ठानमुपादानम् , तच्च कर्मविषयः पुरुषव्यापार इति महान् भेदः । योऽपि दर्शादीनां पुनर्विधिः सोऽपि देशादिसम्बन्धं विधातुं कर्मानुवाद इति न कर्मभे- दमावहति । “समिधो यजति' इत्यादौ विधेयगुणान्तराभावेनाऽनुवादासंभवात्पुनर्विधानं भेदहेतुरिति वैषम्यम् ।। इति त्रयोदशं प्रकरणान्तरप्रत्युदाहरणाधिकरणम् ॥ १३ ॥ . न अथ चतुर्दशमाग्नेयस्तुत्यर्थताधिकरणम् ॥ १४ ॥ चतुर्दशाधिकरणमारचयति- दर्शपूर्णमासप्रोक्त आग्नेयः केवलोऽप्यसौ । दर्शे यदिति वाक्याभ्यां कर्मान्यद्वाऽनुवादगीः ॥ ३३ ।। अभ्यासादन्यकर्मत्वं दर्शेष्टौ द्विः प्रयुज्यताम् । एकत्वप्रत्यभिज्ञानादनूक्त्यैन्द्राग्नसंस्तुतिः ॥ ३४ ॥ इति श्रीमाधवाचार्यविरचितायां जैमिनीयन्यायमालायां द्वितीयाध्यायस्य तृतीयः पादः ॥