पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रकरणान्तरप्रत्युदाहरणाधिकरणम् ] द्वितीयोऽध्यायः ११५ मासो न तथा' इत्यपरं वैषम्यम् । परमार्थतस्त्वत्र प्रथमतरप्रतीतेन प्रकरणभेदेन सिद्धं कर्मभेदं गुणभेद उपोद्दलयति । ततः प्रकरणान्तरमेवाऽत्र भेदहेतुः ॥ इत्येकादशं प्रकरणान्तराधिकरणम् ॥ ११ ॥ - अथ द्वादशं फलसंस्कार्याधिकरणम् ॥ १२ ॥ द्वादशाधिकरणमारचयति- अष्टाकपालमाग्नेयं रुक्कामः प्राकृते फलम् । कर्मान्यद्वा फलं भानात्पूर्वन्यायाप्रवेशनात् ॥ २८ ॥ मा भूद्भिन्न प्रकरणं कर्मान्तरमसंनिधेः । अनारभ्याधीतमेतद्रूपं त्वन्यूनीक्षते ॥ २६ ॥ अनारभ्य श्रूयते-"(१)आग्नेयमष्टाकपालं निर्वपेद्रुक्कामः” इति । रुक्कामस्तेज- रकामः। अत्र इष्टीनां प्रकृतिभूतदर्शपूर्णमासगतमाग्नेययागमनूद्य तत्र तेजस्कामरूपं फलं विधीयते । कुतः ? वाक्येनाऽऽग्नेयफलसम्बन्धस्य भासमानत्वात् । न च पूर्वो- क्तमासाग्निहोत्रन्यायेन कर्मान्तरत्वम् , वैषम्यात् । तत्राऽयनमारम्याधीतत्वादस्ति प्रक- रणान्तरत्वम् । इह त्वनारभ्याधीतत्वेन प्रकरणमेव तावन्नास्ति , कुतोऽत्र प्रकरणान्तर- त्वम् । किंच मासोऽनुपादेयः, अग्निहोत्रानुसारेण सम्पादयितुमशक्यत्वात् । फलं तूपादेयम् , दार्शपौर्णमासिकाग्नेयानुसारेण तेजसः कामयितुं शक्यत्वात् । तस्मात्-. फलविधिरिति प्राप्ते- ब्रूमः--प्रकरणान्तरत्वाभावेऽप्यनारभ्याधीतत्वादसंनिधिरस्त्येव । स एवाऽत्र कर्म भिनत्ति। न चाऽत्र वाजिनन्यायेन कर्मभेदः, अष्टाकपालद्रव्याग्निदेवतात्मनो रूपस्योभ- यत्रैकविधत्वात् । यदि प्रकरणान्तरत्वमप्यसन्निधिकृतमित्यसन्निधिरेव मासाग्निहोत्रे कर्मभेदहेतुः, तर्हि तस्यैवाऽयं प्रपञ्चोऽस्तु । फलं च मासवदनुपादेयम् । अन्यथा साध- नवदफलत्वप्रसङ्गात् । कामना च विषयसौन्दर्यज्ञानात्स्वत एवोत्पद्यते , न तु विधि- श्रवणात्सम्पद्यते। यद्यधिकरणयोर्न्यायभेदः, यदि वा न्यायैक्यम् , सर्वथा तेजस्का- मेष्टिः कर्मान्तरम् । काम्येष्टिकाण्डपठितेषु (२)“ऐन्द्राममेकादशकपालं निर्वपेत्प्रजा- कामः' इत्यादिष्वयमेव न्यायो द्रष्टव्यः ॥ इति द्वादशं फलसंस्कार्याधिकरणम् ॥ १२ ॥ , 2 अथ त्रयोदशं प्रकरणान्तरप्रत्युदाहरणाधिकरणम् ॥ १३ ॥ त्रयोदशाधिकरणमारचयति- यजेत्समे पौर्णमास्यां यावज्जीवं तथैतया । ते. सं. २. ३. ३. २. ते. सं. २. २. १, मै. सं. २. १. १. १.