पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथैकादशं प्रकरणान्तराधिकरणम् ॥ ११ ॥ एकादशाधिकरणमारचयति- मासं जुहोत्यग्निहोत्रं गुणोऽन्यत्कर्म वा गुणः । अनूद्य प्राप्तकर्मात्र मासोऽप्राप्तो विधीयते ॥ २६ ॥ उपसद्भिश्चरित्वेति नित्ये तासामसंभवात् । अनेकस्याऽविधेश्चाऽन्यत्कर्म प्रकरणान्तरात् ॥ २७ ॥ कुण्डपायिनामयने श्रूयते-(१)"उपसद्भिश्चरित्वा मासमग्निहोत्रं जुह्वति मासं दश- पूर्णमासाभ्यां यजेत इति । अत्र प्राप्तं (२)नित्याग्निहोत्रमनूद्य मासलक्षणो गुणोऽ- प्राप्तत्वाद्विधीयत इति चेत्- मैवम्; किं मास एव विधीयते ? उत "उपसद्भिश्चरित्वे' त्युक्तोपसदोऽपि ? नाऽऽ- द्यः-उपसदामपि नित्याग्निहोत्रप्राप्तिरहितानां त्वन्मते विधातव्यत्वात् । न द्वितीयः, प्राप्ते कर्मण्यनेकगुणविधौ वाक्यभेदापत्तेः । ननु मा भूत्तहिं गुणविधिः । कर्मान्तरत्वे किं प्रमाणमिति चेत्-प्रकरणान्तरमिति ब्रूमः । न ह्येतन्नित्याग्निहोत्रस्य प्रकरणम् , असं- निहितत्वात् । (३)अयनस्य ह्येतत्प्रकरणम् , अयनमारभ्याधीतत्वात् । का तर्हि नित्या- ग्निहोत्रे गुणविधिशङ्केति चेत्-प्रकरणस्याऽसमर्पकत्वेऽप्यग्निहोत्रशब्देनैतत्समर्पणादेषा शङ्का भवति । सा च वाक्यभेदापत्त्या निराकृता। तथा सति स्वतःसिद्धं प्रकरणभेदं निराकृत्य प्रकरणेक्यापादनेन गुणं विधापयितुं प्रवृत्तस्याऽग्निहोत्रशब्दस्य शक्तौ निरुद्धायां तदवस्थः प्रकरणभेदो नित्याग्निहोत्रादिदं कर्म भिनत्ति । अग्निहोत्रशब्दो धर्मातिदेशार्थ इति सप्तमे वक्ष्यते । ननूपसन्मासाभ्यां विशिष्टमिदं कर्म विधीयते । ततो वाजिनन्या- येन गुणभेदात्कर्मभेदः, न प्रकरणभेदादिति चेत्--न; वैषम्यात् । 'उपादेयतया विधेयो गुणो वाजिनम् । मासस्त्वनुपादेयः' इत्येकं वैषम्यम् । 'द्रव्यत्वेन रूपान्तर्गतं वाजिनम् , >

१. • (तां. बा. २५. ४. १.) कुण्डपायिनामयनं नाम संवत्सरसाध्यस्सनविशेषः । तस्य सोमयागत्वात् तत्प्रकृतिभूतारिष्टोमात्परम्परयाऽतिदेशेनोपसदः प्राप्ताः । उपसदो नाम आज्यद्रव्यका इष्टिविशेषाः । प्रकृतौ त्रिसंख्याकानामप्यासा द्वादशाहे द्वादशत्ववि- धानात् सा संख्याऽत्राऽतिदेशेन प्राप्नोति । एवञ्च कुण्डपायिनामयने द्व दशदीक्षानन्तरं द्वादशसु दिनेषु द्वादश उपसदोऽनुष्टायाऽनन्तरमेकमासपर्यन्तमग्निहोत्रं जुहुयात् । तत एकमासपर्यन्तं दर्शपूर्णमासाभ्यां यजेत इति विषयवाक्यार्थः । कुण्डपायिनो नाम केचन ऋषिविशेषाः, तैरनुष्टितत्वादिदं कर्म तन्नम्ना प्रसिद्धं कुण्डपायिनामयनमिति । २. आहिताग्निना सायं प्रातः यावज्जीवं कर्तव्यत्वेन विहितमग्निहोत्रं नित्याग्निहोत्रम् । ३. ताण्ड्यमहाब्राह्मणे पञ्चविंशाध्याये सत्ररूपाण्ययनानि विहितानि। तन्मध्येऽस्या- ऽपि विधानादिति भावः । >