पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ दशमं चयनाधिकरणम् ॥ १०॥ दशमाधिकरणमारचयति- अग्निं चिनुत इत्यत्र यागो वा संस्कृतिर्यजिः । लिङ्गेन यागनामत्वाद्यजिना चाऽनुवादतः ॥ २४ ।। रूढ्या द्रव्यस्य नामैतद्वह्नेराधानवञ्चितिः । (१)संस्कारः, संस्कृते वह्नावग्निष्टोमो विधीयते ।। २५ ।। (२)“य एवं विद्वानग्निं चिनुत” इत्येवं विधाय श्रूयते—(३)“अथातोऽग्निमग्निष्टो- मेनाऽनुयजति, तमुक्थ्येन, तं षोडशिना, तमतिरात्रेण” इत्यादि । अत्र अग्निशब्दो या- गवाची, स्तोत्रशस्त्रादेः क्रतुलिङ्गस्य श्रूयमाणत्वात् । तच्च लिङ्गमेवं श्रूयते—(४)"अग्नेः 'स्तोत्रम् , अग्नेः शस्त्रम् । इति, “षडुपसदोऽग्नेश्चित्यस्य भवन्ति” इति च । यदि लिङ्गं प्रापकापेक्षम् , तर्हि यजिना तदनुवादः प्रापकोऽस्तु । “अग्निमग्निष्टोमेनाऽनुयजती' त्येतस्मिन्वाक्ये ‘अग्निं यजतीति यजिसामानाधिकरण्यात् "उपांशु यजतो”तिवद्या- गनामत्वम् । अथोच्येत-अनुशब्दस्याऽग्निशब्देनाऽन्वयाद्यज्यन्वयोऽग्निष्टोमस्येति । तथाऽप्यग्नेः पुरोयजने सत्यग्निष्टोमस्याऽनुयजनं सम्भवति । 'देवदत्तमनुगच्छति यज्ञ- दत्तः' इत्यत्र देवदत्ते पुरोगमनदर्शनात् । तस्मात् “अग्नि चिनुत' इत्यत्राऽग्निनामको याग आख्यातेन विधीयते। चनोतिस्तु(५) “इष्टकाभिरग्निं चिनुत' इति वाक्यप्राप्तस्य चयनस्य सोमयागविकृतित्वेन प्राप्तस्य ग्रहसमुदायस्येवाऽनुवाद इति प्राप्ते- ब्रूमः-अग्निशब्दो रूढया वह्निद्रव्यमाचष्टे । रूढिश्च क्लृप्ततया लिङ्गादिक. लप्याद्यागवाचित्वाद्बलीयसीति न यागनामत्वम् । न चाऽत्र यागरूपमस्ति । द्रव्यदेव- तयोरसिद्धः । अतः “अग्निमादधीत” इत्युक्ताधानवत्(६) “अग्नि चिनुत' इत्युक्तं चयनमग्निद्रव्यसंस्कारः । न च संस्कृतस्य विनियोगाभावः, “अग्निमग्निष्टोमेन यजत” इत्यादिवाक्यैरग्निष्टोमादौ विनियोगात् । तस्मात् संस्कारविधिः ॥ इति दशमं चयनाधिकरणम् ॥ १० ॥ १. संस्कृतिरिति क. पु. २. चयनेनाऽग्निं संस्कुर्यादित्यर्थः । चयनमुपधानम् । चयननिष्पादिते स्थण्डिले आहवनीयाद्यग्निं स्थापयेदिति यावत् । ३. चयननिष्पादिते स्थण्डिले आहवनीयाग्निस्थापनानन्तरं तस्मिन्नग्नावग्निष्टोमा- दिभिर्यजेतेत्यर्थः । ४. 'अग्नौ शस्त्रम् , अग्नौ स्तोत्रमिः(तां.वा. ६.३.५.)ति पाठः । ५. तै. सं. ५. ६. ६. ६. तै. सं. ५. ६. ३.