पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

- अथ नवममंश्वदाभ्याधिकरणम् ॥ ६॥ नवमाधिकरणमारचयति- यददाभ्यं गृहीत्वेति गृह्णात्यंशुमिति द्वयम् । तद्यागो वा गुणो यागः स्याददाभ्यांशुनामतः ॥ २२ ॥ ग्रहयोरेव नाम स्यादानन्तर्याद्विधिस्तयोः । गुणोऽतस्तस्य वाक्येन ज्योतिष्टोमाभिगामिता ॥ २३ ॥ अनारभ्य श्रूयते-(१)“एष वै हविषा हविर्यजते, योऽदाभ्यं गृहीत्वा सोमाय यजत, इति,(२) “परा वा एतस्याऽऽयुः प्राण एति, योऽशुं गृह्णाति' इति च। तत्र अदाभ्यशब्दस्य ज्योतिरादिवदपूर्वनामत्वात्तन्नामको यागो 'यजत' इत्याख्यातेन विधीयते। 'अंशुम्' इत्यत्र यजतेरश्रवणेऽपि नामविशेषबलादेवाऽपूर्वयागविधिः । न चाऽत्र द्रव्यदेवतयोरभावः, ग्रहणलिङ्गेन ज्योतिष्टोमविकृतित्वावगतौ तदीयविध्यन्तातिदेशेन तत्सिद्धेरिति प्राप्ते- ब्रूमः भवत्वदाभ्यांशुशब्दयो मत्वम् । ते च नामनी ग्रहयोरेव स्याताम्, न तु यागयोः । 'गृहीत्वेति शब्दस्याऽनन्तरमेव पाठात् । यजतिस्तु व्यवहितः । तादृशो- ऽपि यजिरंशुवाक्ये नाऽस्ति । तस्माद्ग्रहयोरेवाऽत्र विधिः । ग्रहणं च ज्योतिष्टोमगतस्य सोमरसस्य संस्काररूपो गुणः, ऐन्द्रवायवादिग्रहणसमानत्वात् । यद्यप्यत्र न प्रकृतो ज्योतिष्टोमः, तथाऽपि तत्सम्बन्धिग्रहणद्वारा वाक्यात् ज्योतिष्टोमगामित्वम् । अत एव 'सोमायाऽदाभ्यं गृहीत्वा' इति निर्दिश्यते । (३)अथवा तैत्तिरीयाणां षष्टकाण्डे षष्ठे (४)प्रपाठके प्राकरणिकं विनियोजकं वाक्यं द्रष्टव्यम्। तस्मात् ज्योतिष्टोमे (५)गुणविधिः । इति नवममंश्वदाभ्याधिकरणम् ॥ ९ ॥ १, २. 'एष ह वै हविषा हविर्यजति, योऽदाभ्यं गृहीत्वा सोमाय जुहोती. (ते.सं. वै ३. ३. ४. २. )ति तैत्तिरीयसंहितापाठः । भाष्यशास्त्रदीपिकादौ तु विस्तरनिर्दिष्ट एवं पाठो दृश्यते । अत्र हविरपि सोमः, देवताऽपि सोमः । अतो यः अदाभ्यसंज्ञकं ग्रह गृहीत्वा सोमदेवतायै यागं कारोति, सः सोमेनैव सोमं यजतीति प्रथमविषयवाक्यार्थः ! यः अंशुसंज्ञक ग्रहं गृह्णाति, तस्य प्राणः आयुर्मर्यादामतिक्रामति । शतवर्षेभ्योऽप्या- धिकं जीवेदिति द्वितीय विषयवाक्यार्थः । ३. “चतुर्जुह्वां गृह्णाति” “अष्टावुपभृति गृह्णाती' ति दर्शपूर्णमासीयप्रयाजाद्या- ज्येऽपि गृह्णातेर्दर्शनात् कथं ज्योतिष्टोमाङ्गतालाभ इति चेदाह--अथ वेति । ४. नवमानुवाक इति शेषः । ५. मीमांसाकुतूहलवृत्तिकारा वासुदेवदीक्षितास्तु-'योऽदाभ्यं गृहीत्वा सोमाय यजत' इत्मत्र सोमायेति चतुर्थ्या देवतायाः, 'उपनद्धस्य गृह्णाति’ ‘अनभिषुतस्य गृह्णाती' ( तै. सं. ६. ६. ९. ) त्यादितैत्तिरीयकवाक्यैव्यस्य च लाभात् द्रव्यदेवतासम्बन्धा- क्षिप्तयागविधिरेवेत्यभिप्रयन्ति । , 2