पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

। अथाऽष्टमं पात्नीवताधिकरणम् ॥ ८ ॥ अष्टमाधिकरणमारचयति- पर्यग्निकृतः पात्नीवत उत्सृज्यत इत्यसौ । यागो गुणो वा यागः स्यादन्वयाव्यवधानतः ॥ १६ ॥ प्रत्याभिज्ञातमालभ्यमनूद्योत्सर्गशब्दतः । गुणं पर्यग्निकृत्याख्यं वक्त्युत्तरनिवृत्तये ।। २० ।। न दुष्टा परिसंख्याऽत्र चोदकात्प्राविधौ सति । पर्यग्निकरणान्ताङ्गरीतिः क्लृप्तोपकारतः ॥ २१ ॥ "त्वाष्ट्रं पात्नीवतमालभेत' इति प्रकृत्येदमाम्नांतम्-(१)“पर्यग्निकृतं पात्नीवत. मुत्सृजन्तीति । तत्र पर्यग्निकृतशब्देन संस्कृतपशुद्रव्यस्य पात्नीवतशब्देन पात्नीवन्नाम- कदेवतासंबन्धस्य च प्रतीयमानत्वादयं यागविधिः। एवं सति पर्यग्निकृतपात्नीवतशब्द योरव्यवहितान्वयो लभ्यते । सिद्धान्ती तु 'पर्यग्निकृतमुत्सृजन्ति' इत्यन्वयं वाञ्छति । तदा व्यवहितान्वयो दुर्वारः। तस्मात् वायव्यपशुवद्यागविधिरिति प्राप्ते- ब्रूमः-अनारभ्याधीतत्वान्नाऽस्ति वायव्ये प्रकृतप्रत्यभिज्ञा। इह त्वालभ्यत्वेन प्रकृ- तः पशुः पात्नीवतशब्देन प्रत्यभिज्ञायते। तमनूद्य पर्यग्निकृतशब्दान्वितेन उत्सृजन्तीत्या- ख्यातेन पर्यग्निकरणाख्यो गुणो विधीयते । न च प्रकृतिगतस्य पर्यग्निकरणस्य विकृतौ चोदकेन प्राप्तत्वादनर्थ कोऽयं विधिरिति वाच्यम् । उपरितनाङ्गाननुवृत्तेविधिप्रयोजनत्वात् । नन्वेवं सति परिसंख्या स्यात् । सा च दोषत्रयदुष्टा । स्वार्थत्यागः, अन्यार्थ- स्वीकारः, प्राप्तबाधश्चेति त्रयो दोषाः । पर्यग्निकरणवाक्ये स्वार्थो विधिस्त्यज्येत, अन्यार्थो निषेधः स्वीक्रियेत, चोदकप्राप्तान्युपरितनाङ्गानि बाध्योरन् । मैवम् ; पर्यग्नि- करणोत्तरभावीन्यङ्गानि नाऽनुष्ठेयानीत्येतस्याः परिसंख्याया अनङ्गीकारात् । कथं तर्हि तन्निवृत्तिः ? आर्थिकीति ब्रूमः । चोदकप्रवृत्तेः प्रागेवाऽयं विधिः प्रवर्तते, प्रत्यक्षोपदे- ? शस्य शीघ्रबुद्धिजनकतया कल्प्यातिदेशात्प्रबलत्वात् । तथा सत्युपदिष्टैरेवाडगैर्निराकाङ्क्षायां विकृतौ चोदकस्याऽप्रवृत्त्यैवोपरितनान्यङ्गानि न प्राप्यन्ते। न चाऽनेन न्यायेन पर्यग्निक रणात्प्राचीनानामप्यप्राप्तिरिति वाच्यम् । विधीयमानस्य पर्यग्निकरणस्य नूतनत्वे सत्युप- कारकल्पनापत्त्या प्रकृतौ यत्क्लृप्तोपकारं पर्यग्निकरणं, तदवस्थापन्नस्यैवाऽत्र विधेयत्वात् । प्रकृतौ च प्राचीनाङ्गानन्तरभाविन एवोकारः क्लृप्त इत्यत्राऽपि तादृशस्यैव विधानात्प- र्यग्निकरणान्ताङ्गरीतिः सिध्यति । एवं च सति 'उत्सृजन्ती' त्याख्यातेन यथोक्तपर्यग्नि- करणविधावर्थसिद्ध उपरितनाङ्गोत्सर्गो धातुनाऽनूद्यते । तदेवमत्र गुणविधिः ॥ इत्यष्टमं पात्नीवताधिकरणम् ॥ ८ ॥ 3 १. तै. सं. ६. ६. ६.