पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ षष्ठं वत्सालम्भाधिकरणम् ॥ ६॥ षष्टाधिकरणमारचयति- वत्सालम्भो यजिः स्पर्शो वा वायव्यादिवद्यजिः । स्पर्शः स्याद्देवराहित्यात्संस्कारः प्रायपाठतः ॥ १६ ॥ अग्निहोत्रदोहाधिकारे श्रूयते-(१) 'वत्समालभेत” इति । तत्र विमतो वत्सा. लम्भो यजिः स्यात् , प्राणिद्रव्यकालम्भत्वात् , वायव्यालम्भवदिति चेत्- न;-देवताराहित्येन तद्वैषम्यात् । किंचाऽयं वत्सालम्भोऽग्निहोत्राङ्गसंस्कारः, तत्प्राये पठितत्वात् , इतरसंस्कारवत् । (२)तस्मादयं स्पर्शमात्रविधिः ॥ इति षष्टं वत्सालम्भाधिकरणम् ॥ ६ ॥ > अथ सप्तमं चरूपधानाधिकरणम् ॥ ७ ॥ सप्तमाधिकरणमारचयति- चरूर्भवति नैवार उपधत्ते चरुं त्विति । यागः स्यादुपधानं वा यागः शेषोक्तदैवतः ॥ १७ ॥ यागत्वानिश्चये शेषो नापेक्ष्योऽतो यजिः कुतः । कि तूपधानमात्रत्वं यावदुक्तं चरौ स्थितम् ॥ १८ ॥ अग्नौ श्रूयते-"नैवारश्चरुर्भवति" इति, “चरुमुपदधाति" इति च । तत्र- नीवारचरुद्रव्यको यागो विधीयते । न चाऽत्र देवताया अभावः "बृहस्पतेर्वा एतदन्नं यन्नीवाराः" इति वाक्यशेषेण देवतासिद्धः । (३)उपधानं तु यागोपयुक्तस्य प्रतिपत्तिः स्विष्टकृदादिवदिति प्राप्ते ब्रूमः-यागविधौ निश्चिते सति पश्चाद्देवतायामपेक्षितायां वाक्य शेषवलाद्देवता- क्लृप्तिः, इह तु देवताकल्पनेन यागविधित्वनिश्चय इत्यन्योन्याश्रयः। तस्मादिहोप- धानमात्रं विधीयते ॥ इति सप्तमं चरूपधानाधिकरणम् ॥ ७ ॥ " , - १. मैं. सं. १.५.९. २. “वत्सनिकान्ता हि पशवः” (मै.सं.१.५.९., का.सं.५.७.) इति तद्वाक्यशेषे पशूनां वत्सप्रियत्वात् समीपधारणफलकस्पर्शनेन प्रस्नवनं जायत इति प्रतीयमाना स्तुतिः स्पर्शमात्रविधित्वे सत्युपपद्यते, न तु यागपरत्व इति ध्येयम् । ३. इष्टकामध्ये पात्रेण सह चरोनिक्षेपणम् । ( गाड़ देना)