पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

- " - ईषालम्भाधिकरणम् द्वितीयोऽध्यायः । १०९ गुणौ श्वेतं चरुं किं वा यावत्कथितकर्मणी । फलार्थे, अथवा यागौ विशिष्टौ विहिताविह ।। १३ ॥ श्वैत्यं वायुस्पृगीषायामाग्नेये च रविप्रभे । चरुर्गुणश्चरुः स्थाली निर्वापस्तु तदाश्रितः ॥ १४ ।। फलहानेर्न तत्किं तु यावच्चोदितकर्म तत् । द्रव्यादिरूपसंपत्तेरवार्या यागताऽऽर्थिकी ।। १५ ।। अनारभ्येदमाम्नायते-(१)“वायव्यं श्वेतमालभेत भूतिकामः' इति, (२)“सौर्य चरुं निर्वपेद्ब्रह्मवर्चसकामः” इति च । तथा दर्शपूर्णमासयोरिदमाम्नायते-"ईषामाल- भेत" इति, “चतुरो मुष्टीनिर्वपतीति च । ईषा शकटगतो लाङ्गलदण्डवद्दीर्घः काट- विशेषः । तस्या आलम्भः स्पर्शः। तमेतं दर्शपूर्णमासगतमीषालम्भमनूद्य तस्यामालभ्या- यामीषायां (३)श्वेतगुणो विधीयते। तस्य च श्वेतकाष्टस्य वायुना स्पृश्यमानत्वाद्वायव्य- ता सम्भवति । तथा चतुर्मुष्टिनिर्वपणमनूद्य चरुर्गुणत्वेन विधीयते। चरुः स्थाली। सा च निर्वापस्याऽऽश्रयः । निरुप्तस्य हविष आग्नेयतया सूर्य्यवत्प्रभासंबन्धात्सौर्यत्वम् । भूतिब्रह्मवर्चसे फले च सार्वकामिकयोदर्शपूर्णमासयोः पूर्वसिद्ध एवाऽनूद्यते । तस्मात् गुणविधी इत्येकः पूर्वपक्षः। न हि फलपदयोर्नित्यवच्छ्रुतयोः संभवत्प्रयोजनयोश्च पाक्षिकानुवादत्वम् , आनर्थ- क्यं वा युक्तम् । तस्मात् गुणफलविशिष्टे कर्मान्तरे विधीयते । तदाऽपि यागस्याऽश्रव. णादालम्भनिर्वापयोरेव श्रवणाद्यावदुक्तकर्मविधिरिति द्वितीयः पूर्वपक्षः । श्वेतपशुचरुद्रव्ययोः वायुसूर्यदेवतयोश्च स्पष्टं प्रतीयमानतया रूपवतोर्यागयोरा- र्थिकयोर्वारयितुमशक्यत्वाद्र्व्यदेवताविशिष्टयोर्यागयोर्विधिरभ्युपगन्तव्यः । 'भूतिका- मो वायव्येन श्वेतेन पशुना यजेत' 'ब्रह्मवर्चसकामः सौर्येण चरुणा यजेत' इत्येवंवि- धोऽर्थसिद्धो विधिः । द्रव्यदेवतासम्बन्धकल्पितस्य यागस्य लिङ्प्रत्ययेन कर्तव्यतावि- धावालम्भनिर्वापयोर्धात्वर्थयोः का गतिरिति चेत्-अनुवाद इति ब्रूमः । तत्प्राप्ति- स्त्वार्थिकी, निर्वापालम्भावन्तरेण तत्तद्यागासिद्धः । तस्मात् यागविधिरिति राद्धान्तः । इति पञ्चममीषालम्भाधिकरणम् ॥ ५॥ १. तै. सं. २. १. १. १. See. मैं. सं. २. २. २. also. २. ते. सं. २. ३. २. ३. ३. श्वेतत्वं गुणो विधीयत इति क. पु. जै न्या०