पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०८ सविस्तरायां जैमिनीयन्यायमालायां [ अ. २. पा. ३.अधि.५. " वृत्तिर्दाक्षायणशब्दार्थः । तथा चाऽऽवृत्त्या युक्तः प्रकृतो दर्शपूर्णमासात्मको यज्ञो दाक्षा- यणयज्ञः । आवृत्तिप्रकारस्तु (१)“द्वे पौर्णमास्यौ यजेत , द्वे अमावास्ये” इत्यादिवाक्य. शेषादवगम्यते । ततो दध्यादिवत्प्रसिद्धार्थत्वाद्दर्शपूर्णमासयोः प्रकृतयोरयं स्वर्गफलसि- द्धयर्थमावृत्त्याख्यगुणविधिः, (२)न तूद्भिदादिवत्कर्मनामधेयम् । एवं (३) “साकंप्रस्थायीयेन यजेत पशुकामः' इत्यत्राऽपि द्रष्टव्यम् । अमावास्या- यागे द्वौ द्वौ दोहौ सम्पाद्य चतसृणां दधिपयसोः कुम्भीनां सह प्रस्थापनं साकं प्रस्था- यः । तद्युत्तो यागः साकंप्रस्थायीयः । तथा सति प्रकृते दर्शयागे पशुफलाय साकं- प्रस्थायाख्यो गुणो विधीयते ।। इति चतुर्थं दाक्षायणयज्ञाधिकरणम् ॥४।। अथ पञ्चममीषालम्भाधिकरणम् ॥ ५ ॥ पञ्चमाधिकरणमारचयति- वायव्यः श्वेत आलभ्यो भृत्यै सौर्यं चरूं तथा । निर्वपेद्ब्रह्मतजोर्थमीषामुष्टिनिरुप्तयोः ॥ १२ ॥ १. मा. श. वा.२.४.१.६ ; ११. १. २. १३, and का. श. वा. १. ३.४.४. २. “य एवं विद्वांस्त्रिंशतं वर्षाणि यजेत ( दर्शपूर्णमाशाभ्यां ) तस्मादु त्रिंशतमेव वर्षाणि यजेत, या दाक्षायणयज्ञी स्यादथो अपि पञ्चदशैव वर्षाणि यजेताऽत्र ह्येव सा सम्पत्सम्पद्यते द्वे हि पौर्णमास्यौ यजते द्वे अमावास्ये" (श. ब्रा, ११.१.२.१३.) इति शतपथब्राह्मणे यावज्जीवपक्षानुकल्पतया त्रिंशद्वर्षपक्षमभिधाय, तदनुकल्पत्वेना- ऽपि दाक्षायणयाजिनः पञ्चदशवर्षपक्षमुपदिश्य तदर्थवादे तावतैव त्रिंशद्वर्षसाध्य- प्रयोगावृत्तिरभिहिता। तदिदं गुणफलार्थत्व एवोपपद्येत, न तु कर्मनामत्व इति बोध्यम् । ३. (तै. सं. २. ५. ४. ) अयमत्र विषयसंग्रहः--दर्श आग्नेयपुरोडाशयागः ऐन्द्रदधियागः, ऐन्द्र पयोयागश्चेति यागत्रयमेकदाऽनुष्टीयते । तत्र वेद्यामासादितेषु पुरोडाशदधिपयस्सु प्रथमतः पुरोडाशादवदानधर्मेण जुह्वामवदाय हुत्वाऽनन्तरं कुम्भी. स्थस्थाहघ्नः पयसश्च सहैवाऽवदाय होतव्यमिति नित्यदार्शिकस्थितिः । प्रकृते चाऽऽ. ग्नेययागानन्तरमध्वर्युस्खहस्तस्थिते जुहूपभृतावाग्नीध्रहस्ते दत्वा दधिकुम्भी पयः कुम्भीञ्च तथैवाऽऽदाय आहवनीयसमीपं गत्वा कुम्भीभ्यामेव दधिपयसी जुहुयात् तदेतत्कुम्भीभ्यां सह होमार्थमाहवनीयसमीपगमनं साकं प्रस्थाय इत्युच्यते । तच्च सहप्रस्थानं पशुरूपफलोद्देशेन विधीयत इति गुणगलसम्बन्धविधिरयम् । ।