पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दाक्षायणयज्ञाधिकरणम् ] द्वितीयोऽध्यायः। १०७ 2- इति श्रूयते । “वसन्ते ब्राह्मणमुपनयीत, ग्रीष्मे राजन्यम् , शरदि वैश्यम्” इति च । तत्र वसन्तादिकालविशेषं विधातुं ब्राह्मणादयोऽनूद्यन्ते । न च तेषां प्राप्यभावः, क्रत्वनु- ष्टानान्यथानुपपत्त्या क्लृप्तत्वात् । न ह्याहुत्याधारभूतमग्निम् , अनुष्ठानप्रकारज्ञापिकां विद्यां च विना कर्मानुष्ठानं संभवति । अग्निश्च नाऽऽधानमन्तरेणाऽस्तीति ब्राह्मणादिक- र्तृकमाधानं कल्पयति । विद्या चोपनयनपूर्वकाध्ययनमन्तरेणाऽसंभवन्ती ब्राह्मणाद्युप- नयनं कल्पयतीति तत्र प्राप्तिरिति चेत्- मैवम् : लौकिकाग्नौ होतुं, पुस्तकपाठेनाऽधिगन्तुं च शक्यत्वेनाऽऽधानोपनयन- योरकल्पने ब्राह्मणादीनामप्राप्तेः । तस्मात् वसन्तादिकालविशिष्टे ब्राह्मणादिकर्तृके आधा- नोपनयने अत्र विधीयते ॥ इति तृतीयमाधानाधिकरणम् ॥ ३ ॥ अथ चतुर्थ दाक्षायणयज्ञाधिकरणम् ॥४॥ चतुर्थाधिकरणमारचयति- यदाक्षायणयज्ञेन स्वर्गकामो यजेत तत् । कर्मान्तरं गुणो वोक्तदर्शादौ फलसिद्धये ॥ १० ॥ गुणस्याऽस्याऽप्रसिद्धत्वात्कर्मभेदोऽत्र संज्ञया । गुणो व्युत्पत्तिशेषाभ्यामावृत्त्याख्या न नाम तत् ।। ११ ॥ दर्शपूर्णमासप्रकरणे श्रूयते-(१)“दाक्षायणयज्ञेन स्वर्गकामो यजेत” इति । तत्र दाक्षायणशब्दवाच्यस्य कस्यचिद्गुणस्य लोके प्रसिद्धयभावादुद्भिदादिवद्यजिसामानाधि- करण्येन कर्मनामत्वात् “अथैष ज्योतिः' इत्यादिवदपूर्वसंज्ञायां कर्मान्तरविधि- रिति चेत्- न दाक्षायणशब्दस्याऽऽवृत्तिवाचकत्वात् । तच्च शब्दनिर्वचनाद्वाक्यशेषाद्वाऽवग म्यते । तथा हि-'अयनम्' इत्यावृत्तिरुच्यते (२)दक्षस्येमे दाक्षाः, तेषामयनमि त तन्निर्वचनम् । दक्ष उत्साही पुनः पुनरावृत्तावनलस इत्यर्थः । तदीयानां प्रयोगाणामा- १. ( तै. सं. २. ५. ५. ४.) प्रकृतदर्शपूर्णमासाश्रितेन दाक्षायणाख्येन ( दर्श- पूर्णमासावृत्तिरूपेण ) गुणेन स्वर्ग भावयेदिति विषयवाक्यार्थः । २. शतपथकौषीतकिब्राह्मणयोस्तु “स वै ( प्रजापतिः ) दक्षो नाम वै । तधदेनेन सोऽग्रेऽयजत, तस्माद्दाक्षायणयज्ञः” ( श. ब्रा. २. ४. १. २.) इति, “दक्षो ह वै पार्वतिरेतेन यज्ञेनेष्ट्वा सर्वान् कामानाप ( कौ. ब्रा. ४. ४. ) इति वाक्यशेषो दृश्यते ।