पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०६ सविस्तरायां जैमिनीयन्यायमालायां [अ.२. पा. ३. अधि, ३ - , निमित्तत्वेनाऽनूद्यते । द्वितीयस्थाने श्रुतस्यैन्द्रस्य तृतीयस्थानेऽवस्थापयितुं “यदि राजन्यः” इत्यनुवादः । वैश्वदेवस्य तु स्वत एव तृतीयस्थाने श्रवणात्तत्र मध्ये निधा- नविधिर्नित्यानुवादः । ननु राजकर्तृके राजसूये ब्राह्मणवैश्ययोः प्राप्त्यभावान्नाऽनुवादो युक्त इति चेत्-न; तयोरपि राज्ययोगहेतुराजशब्दार्थत्वादिति प्राप्ते- ब्रूमः-राजशब्दः क्षत्रियजातौ रूढः, न तु राज्ययोगस्तस्य प्रवृत्तिनिमित्तम् । प्रत्युत राज्यशब्दस्य राजयोगः प्रवृत्तिनिमित्तम् , 'राज्ञः कर्म' इति विगृह्य राजप्रातिप- दिकस्योपरि(१) प्रत्ययविशेषविधानात् । ब्राह्मणवैश्ययोः प्रजापालनेन राजशब्द उपचरितः । तस्मात् अवेष्टौ ब्राह्मणवैश्यौ पूर्वमप्राप्तावनेन वचनेन प्राप्येते । ननु राजसू. यस्य राजकर्तृकत्वात्तदन्तर्गताया अवेष्टेरपि तथात्वात्तस्यां ब्राह्मणवैश्ययोः प्रापणमयुक्त- मिति चेत्-मैवम् ; । अन्तरवेष्टौ तदसम्भवेऽपि राजसूयाद्वहिः प्रयुज्यमानायामवेष्टौ तत्संभवात् । तस्मादत्र ब्राह्मणादिकर्तृकं यथोक्तगुणविशिष्टं कर्मान्तरं विधीयत इति न रथन्तरादितुल्यत्वम् । यदिशब्दस्तु निपातत्वादनर्थकोऽर्थान्तरवाची वेत्युन्नेयम् ॥ इति द्वितीयमवेष्ट्यधिकरणम् ॥ २ ॥ अथ तृतीयमाधानाधिकरणम् ॥३॥ (२) तृतीयाधिकरणमारचयति- वसन्ते विप्र आदध्यात्तत्रैवोपनयीत तम् । अनुवादः प्रापणं वाऽनुवादः कालसिद्धये ॥ ७ ॥ अन्तरेणाऽग्निविद्याभ्यां कर्मानुष्ठित्यसम्भवात् । वलृप्ते आधानोपनीती प्राप्ता विप्रादयस्ततः ॥ ८ ॥ लौकिकाग्नेः पुस्तकाच्च तत्सिद्धेर्नाऽस्ति कल्पनम् । कालविप्रादिसंयुक्तमतोऽप्राप्तं विधायते ॥ ६ ॥ (३) “वसन्ते ब्राह्मणोऽग्नीनादधीत" (४) "ग्रीष्मे राजन्यः” (५) “शरदि वैश्यः" १. 'गुणवचनब्राह्मणादिभ्यः कर्मणि चे' (पा.सू.५.१.१२४.) ति सूत्रेण ष्यड्प्रत्य- च यविधानादित्यर्थः । २.पूर्वाधिकरणेनाऽस्य प्रत्युदाहरणसङ्गतिः । ३. तै. ब्रा. १. १. २. ६. ४. तै. वा. १.१ तै. २. ब्रा. १.१.२.७.