पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अवेष्ट्यधिकरणम् ] द्वितीयोऽध्यायः । १८५ आग्रयणाग्रत्ववाक्यं न कर्मान्तरविधायकम् , किन्तु अन्येन विहिते सोमयागे यत्र जग- त्साम संभवति तत्र गुणविधायकमित्येतावन्मात्रस्याऽत्र प्रतिपाद्यत्वात् ॥ इति प्रथमं रथन्तराधिकरणम् ॥ 1 ॥ > अथ द्वितीयमवेष्टयधिकरणम् ॥ २॥ (१)द्वितीयाधिकरणमारचयति- राजसूयं प्रकृत्यष्टिरवेष्टयाख्या श्रुताऽत्र तु । विप्रक्षत्रियविभेदाद्धविषां व्यत्ययः क्रमे ॥ ४॥ विप्रादेरनुवादः स्यात्प्रापणं वाऽनुवादगीः । व्यत्ययाय त्रयाणां च राजत्वाप्रप्तिरस्ति हि ॥ ५॥ न राज्ययोगाद्राजत्वं क्षत्रियत्वं तु तत्त्वतः । अप्राप्तप्रापणं तस्मान्न रथन्तरतुल्यता ॥ ६ ॥ राजसूयप्रकरणे काचिदिष्टिः(२) अवेष्टिनामिका श्रूयते-(३)"आग्नेयमष्टाकपालं निर्वपति हिरण्यं दक्षिणा, ऐन्द्रमेकादशकपालमृषभो दक्षिणा, वैश्वदेवं चरुं (४)पि- शङ्गी(५) पष्ठौही दक्षिणा, मैत्रावरुणीमामिक्षा (६) वशा दक्षिणा, बार्हस्पत्यं चरुं (७)- शितिपृष्ठो दक्षिणा" इति । तस्यामवेष्टौ हविषां क्रमव्यत्ययः श्रूयते-(८)“यदि ब्राह्मणो यजेत, बार्हस्पत्यं मध्ये निधायाऽऽहुतिमाहुतिं हुत्वा तमभिघारयेत् , यदि राजन्य ऐन्द्रम् , यदि वैश्यो वैश्वदेवम्" इति। तत्र यथा पूर्वाधिकरणे ऐन्द्रवायवाग्रत्वं व्यवस्था- पयितुं यदिशब्दयुक्तेन वाक्येन रथन्तरं निमित्तत्वेनाऽनूदितम् , एवमत्रापि पञ्चम- स्थाने श्रूयमाणं बार्हस्पत्यं चरु मध्ये तृतीयस्थाने स्थापयितुं “यदि ब्राह्मणः” इत्यादि १. पूर्वाधिकरणेनाऽस्याऽऽपवादिकी सङ्गतिः। २. दिग्व्यवस्थापनप्रयुक्तोन्मादयितॄणामवजननहेतुत्वात् अवेष्टिरिति कर्मनामधे- यम् । इष्टेरस्याः पूर्वोक्तावजननहेतुत्वं तैत्तिरीयब्राह्मणे प्रथमाष्टके अष्टमप्रपाठके तृतीयानुवाके प्रतिपादितम् । ३. ते. सं. १.८.१९. ४. पिशङ्गी पिङ्गलवर्णा । ५. पष्ठीही बालगर्भिणी । ६. वशा वन्ध्या । ७. यस्य पशोरुपरि भागे श्वेतवर्णस्स शितिपृष्ठः । ८.(मै.सं.४.४.९.) ब्राह्मणकर्तृके प्रयोगे आग्नेयादीनि चत्वारि हवींषि प्रतिदिश- मासाद्य तेषां मध्ये बार्हस्पत्यमासाद्य आग्नेयायेकैकं हविर्तुत्वा तस्य तस्य संस्रवेण मध्ये निहितं हविरभिघारयेत् । एवं राजन्यकर्तृकप्रयोगे ऐन्द्रं हविर्मध्ये निधाय, वैश्वकर्तृकप्रयोगे वैश्वदेवं मध्ये निधाय तदभिधारयेदित्यर्थः । > .