पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०४ सविस्तरायां जैमिनीयन्यायमालायां [अ. २. पा. ३. अधि.१. , " ग्रहान् गृह्णीयात् । यदि बृहत्सामा शुक्राग्रान् । यदि जगत्सामाऽऽग्रयणाग्रान्" इति । तत्र सोमशब्देन सोमलतासाधनको यागोऽभिधीयते । तस्मिश्च यागे माध्यन्दिने सवने पृष्ठस्तोत्रे रथन्तरबृहज्जगन्नामकानि सामानि विकल्पेन विहितानि । (१)"अभि- त्वा शूर" इत्येतस्यां योनावुत्पन्नं रथंतरम् । (२)“त्वामिद्धि हवामहे” इत्येतस्या- मुत्पन्नं बृहत् । जगतीच्छन्दस्कायामृच्यु-पन्नं जगत् । ऐन्द्रवायवः, मैत्रावरुणः, आश्विनः, शुक्रः, मन्थी, आग्रयणः, उक्थ्यः, ध्रुवः, इत्यादिनामका ग्रहाः प्रातस्सवने गृह्य- न्ते । दारुपात्रेषु सोमरसस्य ग्रहणाद्ब्रहा भवन्ति । सोमयागस्य रथन्तरसामोपेतत्वपक्षे एतेषु ग्रहेष्वैन्द्रवायवः प्रथमं ग्रहीतव्यः । बृहत्सामोपेतत्वपक्षे शुक्रः । जगत्सामोपेत. त्वपक्ष आग्रयणः प्राथमिक इति विषयवाक्यार्थः । तत्र प्रकृतो ज्योतिष्टोमो गायत्रादि- सामोपेतः, तद्व्यावृत्त्यर्थमिह रथन्तरादया गुणाः कीर्त्यन्ते । तस्मात् ऐन्द्रवायवादिगु- णोपेतानि कर्मान्तराण्यत्र विधीयन्त इति प्राप्ते- ब्रूमः- “यदि रथंतरसामा सोमः स्यात्' इत्युक्तो यः सोमशब्दः, तेन प्रकर- णेन चाऽत्र ज्योतिष्टोमः समर्प्यते । समर्पिते तस्मिन् यथोक्तग्रहाग्रत्वं गुणो विधीयते । न च रथन्तरादिगुणानुवादेन ज्योतिष्टोमस्य व्यावृत्तिः सम्भवति, तस्य प्रातस्सव नादौ गायत्रादिसामोपेतत्वेऽपि पृष्ठस्तोत्रे रथन्तरादियोगस्याऽपि सद्भावात् । किं तर्हि व्याव- र्त्यंत इति चेत्-रथंतरबृहज्जगतां परस्परव्यावृत्तिरिति वदामः । रथन्तरादयः पृष्ठ- स्तोत्रे विकल्पिताः । तत्र रथन्तरानुवादेनेतरौ पक्षौ व्यावर्त्येते । एवमितरत्राऽपि । तस्माद्गुणविधिः । ननु यः प्रकृतो ज्योतिष्टोमः सोऽन्येषां सोमयागानां प्रकृतिः । न हि प्रकृतौ जगत्यामुत्पन्नं साम विहितमस्ति । अत एव दशमाध्याये पञ्चमपादस्य पञ्चदशाधिकरणे प्रथमवर्णके “यदि जगत्सामा” इति वाक्योक्तमाग्रयणाग्रत्वं विकृतौ (३)विषुवन्नामके मुख्येऽहनि व्यवस्थापितम् । बाढम् ; तथाऽपि नाऽत्र कश्चिद्विरोधः । एतेषु 'अण्व्या धारया गृह्णातोति विधिना धारया ग्रहीतव्यतया विहिता ऐन्द्रवायवा- दयो धाराग्रहाः । उपांश्वन्तर्यामौ चाऽधाराग्रहौ । तत्रोपांश्वन्तर्यामयोरधाराग्रहयोर्ग्रह- णानन्तरं धाराग्रहाणामैन्द्रवायवादीनामुपकमः । तत्र पृष्टस्तोत्रे रथन्तरबृहतोस्साम्नो- विकल्पेन विधानात् रथन्तरपक्षे धाराग्रहेष्वैन्द्रवायवमादितो गृहीत्वा पश्चान्मत्रावरुणा- दीन् गृह्णीयात् । बृहत्पक्षे शुक्रं प्रथमतो गृहीत्वाऽनन्तरमैन्द्रवायवादीन् गृह्णीयादिति । १. अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः । ईशानमस्य जगतस्स्वदशमीशानमिन्द्र तस्थुषः ॥ सा. सं. पू. ३. २. ५. १. २. त्वामिद्धि हवामहे सातौ वाजस्य कारवः । त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काप्टास्वर्वतः ॥ सा. सं. पू. ३. २. ५. २. ३. गवामयने एकषष्टयधिकशतत्रयसुत्यात्मके (३६१) यो मध्यमो दिवसः एका. शीत्युत्तरशततमरूपः तस्य विषुवानिति संज्ञा ।