पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०३ रथन्तराधिकरणम् ] द्वितीयोऽध्यायः । षत्वं च पुरुषाभिलषितफलसाधनत्वे सत्युपपद्यते । ततः सौभरस्य हीषिति निधनवि- शेषस्य च फलभूते द्वे वृष्टी भवतः । तदुभयमेलनान्महती वृष्टिरिति प्राप्ते- ब्रूमः-सौभरविधौ यो वृष्टयादिकामः स एव हीषादिविधौ प्रत्यभिज्ञायते । ततः सौभरस्य फलभूता ये वृष्टयादयः, त एव हीषादिवाक्येष्वनूद्यन्त इति न फलान्तरम् । अथोच्येत-नूतनफलान्तराभावात् हीषादीनां च नानाशाखाध्ययनादेव सौभरे प्राप्त. त्वादनर्थकोऽयं विधिरिति । तन्न, फलत्रयकामानां त्रयाणामनियमेनैव हीषादिषु मध्ये यस्य कस्यचिन्निधनस्य प्राप्तौ विधेर्नियमार्थत्वात् । तादर्थ्यं तु फलान्तराभावेऽपि सौभ- रवाक्योक्तवृष्ट्यादिफलसाधने सौभरे हीषादीनां नियम्यमानत्वादुपपद्यते । तस्मादयं निधनविशेषनियमनविधिः ॥ इति त्रयोदशं सौभराधिकरणम् ॥ १३ ॥ इति श्रीमाधवाचार्यविरचिते जैमिनीयन्यायमालाविस्तरे द्वितीयाध्यायस्य द्वितीयः पादः ॥ २॥ अथ द्वितीयाध्यायस्य तृतीयपादः ॥ (१)तृतीयपादस्य प्रथमाधिकरणमारचयति-तत्र प्रथमं रथन्तराधिकरणम् ॥ १ ॥

रथन्तरं साम सोमे भवेत्तद्वबृहज्जगत् । ऐन्द्रवायवशुकाग्रयणाग्राश्च ग्रहाः श्रुताः॥१॥ रथन्तरादिसंयुक्त मन्यत्कर्माऽथवा गुणः । गायत्रादियुतात्पूर्वादन्ययावृत्तितो गुणैः ॥ २ ॥ सोमशब्दप्रकरणे ज्योतिष्टोमसमर्पके । ग्रहाग्रत्वं गुणस्तत्र व्यावृत्तिस्तु परस्परम् ॥ ३॥ ज्योतिष्टोमप्रकरणे श्रूयते-(२)“यदि रथन्तरसामा सोमः स्यादैन्द्रवायवाग्रान् पूर्वस्मिन् पादे कर्मभेदः प्रतिपादितः । अस्मिन् पादे तदपवादः प्राधान्येन प्रतिपाद्यत इति बोध्यम् । २. ( आप. श्री. १२. १४. १.) अत्राऽयं विषयविवेकः-ज्योतिष्टोमे प्रात- स्सवने उपांशुः, अन्तर्यामः, ऐन्द्रवायवः, मैत्रावरुणः, आश्विनः, शुक्रः, मन्थी, आग्रयणः, उक्थ्यः, ध्रुवः, ऋतुग्रहाः, वैश्वदेवश्चेत्यादीनां ग्रहाणां ग्रहणं विहितम् । १.