पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०२ सविस्तरायां जैमिनीयन्यायमालायां [अ. २.पा. २.अधि.१३. शास्त्रैकवोध्यत्वाद्दुर्वारो वाक्यभेदः । तेन पशुफलकं यथोक्तगुणविशिष्टं कर्मान्तरमत्र विधीयते । एतच्छब्द एवकारश्च विधीयमान कर्मान्तरविषयतया योजनीयः ॥ इति द्वादशं रेवत्यधिकरणम् ॥ १२ ॥ अथ त्रयोदशं सौभराधिकरणम् ॥ १३ ॥ (१)त्रयोदशाधिकरणमारचयति- वृष्टयन्नस्वर्गकामानां सौभरं स्तोत्रमीरितम् । निधनान्यपि हीषूर्गू इति वृष्टयादिकामिनाम् ॥ ३२ ॥ फलान्तरं किं वृष्टयादि हीषादीनामुतोदिते । सौभरे फलसंभिन्ने निधनं विनियम्यते ।। ३३ ।। फलान्तरं चतुर्थ्योक्तं वृष्टिकामाय हीषिति । सौभरस्य फलं वृष्टिहीषित्युक्त्या विवर्धते ॥ ३४ ॥ नोक्तवृष्टयन्नकामानामन्यत्वं प्रत्यभिज्ञया । नियमेऽपि चतुर्थेषा तादार्थ्यादुपपद्यते ॥ ३५ ॥ इति श्रीमाधवाचार्यविरचितयां जैमिनीयन्यायमालायां द्वितीयाध्यायस्य द्वितीयः पादः ॥ (२) “यो वृष्टिकामो योऽन्नाद्यकामो यः स्वर्गकामः स सौभरेण स्तुवीत, सर्वे वै कामाः सौभरे” इति समाम्नाय पुनस्समाम्नातम्-(३) "हीषिति वृष्टिकामाय निधनं कुर्यात् , ऊर्गित्यन्नाद्यकामाय, ऊ इति स्वर्गकामाय' इति । सौभरं नाम सामविशेषः । निधनं नाम पञ्चभिः सप्तभिर्वा (४)भागैरुपेतस्य साम्नोऽन्तिमो भागः । तस्मिन्निधने हीषादयो विशेषाः सौभर सामसाध्यस्तोत्रफलेभ्यो वृष्टयादिभ्योऽन्यानि वृष्ट्यादिफलानि जनयितुं विधीयन्ते । कुतः ? हीषादिविधिवाक्ये 'वृष्टिकामायेत्यादिना चतुर्थीश्रव. णात् । तादर्थ्य ब्रुवती चतुर्थी हीषादीनां वृष्ट्यादिकामपुरुषशेषत्वं गमयति । तच्छे. १. पूर्वाधिकरणेनाऽस्याऽऽपवादिकी सङ्गतिः । २. तां. बा. ८.८. १८. ३. तां. ब्रा.८.८.१९. ४. हिङ्कारः, प्रस्तावः, उद्गीथः, ओङ्कारः, प्रतिहारः, उपद्रवः, निधनञ्चेति साम्नः सप्त भक्तयः । भक्तिः भागः-अवयव इति यावत् । , ,