पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

- - अथ द्वादशं रेवत्यधिकरणम् ॥ १२ ॥ (१)द्वादशाधिकरणमारचयति- उक्त्वाऽग्निष्टुतमेतस्य वारवन्तीयसाम हि । रेवतीष्वृक्षु कृत्वेति श्रुतं पशुफलाप्तये ॥ २६ ॥ रेवत्यादिर्गुणः कर्म पृथग्या पूर्ववद्गुणः । रेवतीवारवन्तीयसंबन्धाख्यः पशुप्रदः ॥ ३० ॥ साम्नोऽत्र फलकर्मभ्यां सम्बन्धे वाक्यभिन्नता । तेनोक्तगुणसंयुक्तमन्यत्कर्मोच्यते फले ॥ ३१ ॥ (२)"त्रिवृदग्निष्टुदग्निष्टोमस्तस्य वायव्यास्वृक्ष्वेकविंशमग्निष्टोमसाम कृत्वा ब्रह्मवर्च- सकामो यजेत' इत्यस्य संनिधौ श्रूयते- “एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेत" इति । अस्याऽयमर्थः-अग्निष्टोमस्य विकृतिरूपः कश्चि- देकाहोऽग्निष्टुन्नामकः । स च पृष्टस्तोत्रे त्रिवृत्स्तोमयुक्ततया 'त्रिवृत्' इत्युच्यते । अग्निष्टो- मोक्थ्यादीनां सप्तानां सोमसंस्थानां मध्येऽग्निष्टोमसंस्थारूपत्वात् 'अग्निष्टोमः' इत्युच्यते। प्रकृतौ तृतीयसवन आर्भवपवमानस्योपरि यज्ञायज्ञीयं साम गीयते। तेन च साम्नाऽग्नि- ष्टोमयागस्य समाप्यमानत्वात् 'अग्निष्टोमसाम' इत्युच्यते । तच्च प्रकृतौ(३) “यज्ञायज्ञा वो अग्नये”इत्याद्याग्नेयीष्वृक्षु गीयते । अस्मिंस्त्वग्निष्टुति ब्रह्मवर्चसकामेन वायव्यास्वृक्षु तत्साम गातव्यम् । तच्च प्रकृताविवैकविंशस्तोमयुक्तम् । पशुकामस्य तु(४) "रेवतीर्नः सधमाद” इत्यादि रेवतीष्वृक्षु वारवन्तीयं साम गायेदिति । तत्र रेवतीनामृचां वार-षु यन्तीयनामकेन साम्ना यः संबन्धः, सोऽयं पशुफलायाऽग्निष्टुति विधीयते, ‘एतस्यैवे'- ति प्रकृतपरामर्शकेनैतच्छब्देन, अन्यव्यावर्तकेनैवकारेण चाऽग्निष्टुतः समर्म्यमाणत्वात् । यथा पूर्वाधिकरण इन्द्रियफलाय प्रकृतेऽग्निहोत्रे दधिगुणो विहितः, तद्वदिति प्राप्ते-- ब्रूमः-विषमो दृष्टान्तः, दध्नो होमजनकत्वं न शास्त्रेण बोधनीयम् , तस्य लोक- तोऽवगन्तुं शक्यत्वात् । फलसंवन्ध एक एव शास्त्रबोध्य इति न तत्र वाक्यभेदः । इह तु रेवत्यृगाधारकवारवन्तीयसाम्नोऽग्निष्टत्कर्मसाधनत्वं फलसाधनत्वं चेत्युभयस्य ४. १. अत्राऽपि पूर्ववद्गुणफलसम्बन्धोऽस्त्विति पूर्वपक्षोत्थानात्प्रत्युदाहरणसङ्गतिः । २. तां. वा. १७.६.१. ३. सा. सं. उ. रेवतीर्नस्सधमाद इन्द्रे सन्तु तुविवाजाः । क्षुमन्तो यामिर्मदेम ॥ आद्य त्वा वां त्मना युक्तस्स्तोतृभ्यो धृष्णवीयानः । ऋणोरक्षं न चक्रयोः ॥ आ यवः शतक्रतवा कामं जरितॄणाम् । ऋणोरक्षं न शचीभिः ॥ सा. सं. उ. ४. १. १४.