पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शाखान्तराधिकरणम् ] द्वितीयोऽध्यायः। ११९ याम्, तदेवाऽन्यत्राऽप्युपलभ्यते । “दर्शपूर्णमासाभ्यां यजेते”ति यागरूपः पुरुषव्या- पारश्चैकविधः । 'दर्शपूर्णमासौ' इति कर्मनामाप्येकम् । 'स्वर्गकामः' इति फलसंबधोऽ- प्येकः । तस्मात् अभिन्नं कर्म । पूर्वपक्षहेतवस्त्वन्यथा संगच्छन्ते । काठकादिकं ज्योतिरादिवन्न कर्मनाम, 'काठकेन यजेत' इत्यश्रवणात् । 'काठकमधीते' इति प्रयो- गान्थनामेत्यवगन्तव्यम् । भूभोजनादिरध्ययनधर्मः । पुनरुक्तिरध्येतृभेदान्न दुष्यति । अल्पायुषाऽपि शाखान्तरस्थोपसंहारन्यायेन कर्माऽनुष्टातुं शक्यते । तस्मात् अनन्य- थासिद्धरूपप्रत्यभिज्ञानाच्छाखाभेदेऽपि कर्म न भिद्यते ॥ इति द्वितीयं शाखान्तराधिकरणम् ॥ २॥ इति श्रीमाधवाचार्यविरचिते जैमिनीय न्यायमालाविस्तरे द्वितीयाध्यायस्य चतुर्थः पादः ॥ ४॥ द्वितीयोऽध्यायश्च समाप्तः॥२॥