पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[१ प्रथमावाये- मुख्यप्राणविशुद्धिमुपसंहरति-ह्येष इति । तस्य विशुद्धत्वे हेत्वन्तरमाह-यस्माञ्चति । अतो विशुद्ध इत्युत्तरत्र संबन्धः । सर्वार्थत्वं प्राणस्य प्रश्नपूर्वकं प्रतिपादयति-कथमि- त्यादिना ! घ्राणादीत्यादिशब्देन कार्यमप्युच्यते । तेनैतास्तृप्यन्तीति श्रुत्यन्तरमाश्रित्याऽऽह- तेन हीति । प्राणवृत्तिहेतुभ्यामनपानाभ्यां संघातस्थितिरत:शब्दार्थः । सर्वार्थत्वं द्वितीय- स्यातःशब्दस्यार्थः । मुख्यप्राणोपयुक्तत्वादन्नपानानां संघातस्थितिहेतुत्वमित्यत्र प्रश्नपूर्वक लिङ्गं दर्शयति-कथमित्यादिना । वृत्तिमेव विशिनष्टि-अन्नपाने इति । अन्वहमु. पयुज्यमाने अन्नपने प्राणस्थितिहेतु इति यावत् । प्राणस्योच्चिक्रमिषायामपि संघातः स्वयमशनपाने कृत्वा स्थास्यतीत्याशङ्कयाऽऽह-अप्राणो हीति । तदा प्राणोच्चिक्रमि- घावस्थायामिति यावत् । ननक्रान्त्यवस्थायामशिशिष.द्यभावादेव संघातस्योत्क्रान्तिर्न त्वश• नाद्यभावात्तत्र प्रमाणाभावादत आह-दृश्यते हीति । तदिति मुख्यव्यादानमुच्यते । अन्नग्रहणं पानोपलक्षणार्थम् ॥ ९ ॥ तर हाङ्गिरा उद्गीथमुपासांचक एतमु एवाऽऽ- गिरसं मन्यन्तेऽङ्गानां यद् सः ॥ १० ॥ । तं हाङ्गिरास्तं मुख्यं प्राणं हाङ्गिरा इत्येवंगुणमुद्गीथमुपासांचक्र उपासनं कृतवान्बको दालभ्य इति वक्ष्यमाणेन संबध्यते । तथा बृहस्पतिरित्यायास्य इति चोपासांचक्रे बक इत्येव संबन्धं कृतवन्तः केचित् । एतमु एवाऽऽजिनसं बृहस्पतिमायास्यं प्राणं मन्यन्त इति वचनात् । भवत्येवं यथाश्रुतासंभवे, संभ- वति तु यथाश्रुतमृषिचोदनायामपि श्रुत्यन्तरवत् । तस्माच्छतर्चिन इत्याचक्ष एतमेव सन्तमृपिमपि । तथा माध्यमा गृत्समदो विश्वामित्रो वामदेवोऽधिनित दिऋषीनेव प्राणमापादयति श्रुतिः । तथैतानप्यपीन्माणोपासकानङ्गिरोष त्यायास्यान्प्राणं करोत्यभेदविज्ञानाय । “प्राणो ह पिता प्राणो माता इत्यादिवच्च । तस्मादपिरङ्गिरा नाम प्राग एव सन्नात्मानमङ्गिरसं प्राणमद्री- थमपासांचक्र इत्येतत् । यद्यस्मात्सोऽङ्गानां प्राणः सन्रसस्तेनासावाहित रसः॥ १० ॥ ___विशुद्धिगुणकमुख्यप्राणात्मोद्गातृदृष्टयोद्गीथावयवभूतमोंकाराख्यमक्षरमुपास्यमित्युतमिदा- नी तत्रैवाऽऽङ्गिरसबृहस्पत्यायास्यगुणत्रयविधानार्थमुत्तरग्रन्थमुत्थापयति-तं हेति । तत्र वत्तिकाराभिप्रेतं संबन्धं दर्शयति-तं मुख्यमिति । पराभिप्रेतसंबन्धे गमक. माह-एतमिति । अव्यवहितसंबन्धसंभवे व्यवहितसंबन्धकल्पना न युक्तति पर. १ छ. शुद्धिहे । २ ख. र. पानसं' | ३ क. ग. "त्येवं सं। ४ . च. न्तात् ।